This page has not been fully proofread.

न्यायकोक्षः ।
 
ब्राह्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम् । तच शब्दनियतपूर्व-
वृत्तित्वघटितमिति भावः । द्वितीयोदाहरणे कुलालं ( पुत्रं ) प्रति पूर्ववृत्तित्वे
ज्ञाते एष घटं प्रति कुलालपितुः पूर्ववृत्तित्वप्रहाद्धटं प्रति कुलालपितान्य-
थासिद्ध इति भावः ( त० कौ० ७ ) । तृतीयः - अन्यत्र लृप्तनियतपूर्व-
वृत्तिनैव कार्यसंभवे तत्सहभूतोन्यथासिद्धः । यथा पाकजस्थले गन्धं प्रति
रूपप्रागभावः । यथा वा घटविशेषं प्रति दैवादागतो रासभः (त० कौ० ७)
( त० दी० १६ ) । आद्ये अपाकजस्थले गन्धं प्रति कृतनियत-
पूर्ववर्तिना गन्धप्रागभावेनैव पाकजस्थलेपि गन्धात्मककार्यसंभवे रूपप्रा-
गभावोन्यथासिद्धः ( नील० १६ ) । द्वितीये घटविशेषादन्यत्र घटान्तरे
कृप्तनियतपूर्ववृत्तिदण्डचक्रादेरेव घटविशेषस्यापि संभवे दण्डचादिसह-
भूतो दैवादागतो रासभोन्यथासिद्ध: ( त० कौ० ७ ) । प्रकारान्तरेणा-
न्यथासिद्धं पञ्चविधम् । यत्कार्ये प्रति कारणस्य पूर्ववृत्तित्वं येन रूपेण
गृह्यते तत्कार्यं प्रति तद्रूपमन्यथासिद्धम् । यथा घटं प्रति दण्डत्वम् । अत्र
घटं प्रति दण्डस्य कारणत्वं दण्डत्वेनैव गृह्यत इति दण्डत्वमन्यथासिद्ध-
मिति बोध्यम् ( १ ) । यस्य स्वातन्त्र्येणान्वयव्यतिरेकौ न स्तः किं तु
स्वकारणमादायान्वयव्यतिरेको गृह्येते तदन्यथासिद्धम् । यथा घटं प्रति
दण्डरूपम् । अत्र दण्डरूपस्य स्वातन्त्र्येणान्वयव्यतिरेको दण्डरूपसत्त्वे
घटसत्त्वम् दण्डरूपाभावे घटाभाव इति न स्तः । किंतु दण्ड रूपस्य
कारणं दण्डमादायैवान्वयव्यतिरेको दण्डसत्त्वे घटसत्त्वम् दण्डाभावे घटा-
भाव इति गृह्येते इति घटं प्रति दण्डरूपमन्यथासिद्धमिति बोध्यम् (२) ।
अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते
तस्य तत्कार्ये प्रत्यन्यथासिद्धत्वम् । यथा घटादिकं प्रत्याकाशस्य ( ३ ) ।
यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं
गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा घटं प्रति कुलालपितुः
( ४ ) । [क ] अवश्यक्लृप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तद्भिन्नम-
न्यथासिद्धम् । यथा घटादिकं प्रति रासमादीति ( मा०प० ०
१९ - २२ ) ( मु० ११५४ ) । [ख] यस्यानुकूलतर्काभावः सोन्य-
-