2023-02-20 00:57:09 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२ परिशेषः । यथा सदनिंत्यमित्येवमादिना द्रव्यगुणकर्मणामविशेषेण
सामान्य विशेषसमवायेभ्यो निर्भक्तस्य शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये
न द्रष्यमेकद्रव्यत्वात् न कर्म शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम्
इति शब्दस्य गुणत्व प्रतिपत्तिः ( वात्स्या० १११।५ ) । ३ शाब्दिकास्तु
उक्तादन्यः शेषः । तदर्थ उक्तात् कर्मवकरणत्व संप्रदानत्वा पादानवा-
विकरणत्वादिम्यः अन्य संबन्धादिः शेषः इति । कारकाणामविवक्षेति
भावः । यत्र न कारकं कारकार्थो वा विवक्ष्यते स शेषः । तद्यथा
ब्राह्मणस्य कमण्डलु: ( न्या० वा० १ पृ० ११ ) इति । यथा वा
प्रमाणादीनां तत्त्वम् राज्ञः पुरुषः इत्यादौ । अत्र षष्ठी शेषे ( पाणि
२१३१५० ) इति सूत्रेण शैषिकी षष्ठी । तदर्थश्च कर्मादिकारके-
म्योन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः तत्र षष्ठी
स्यात् । यथा राज्ञः पुरुषः पशोर्मुखम् पितुः पुत्रः (काशिका० ) ।
यथा वा चैत्रस्य वासः इत्यादौ षष्ठी ( ग० व्यु० का० ६) ।
४ धर्मशास्त्रज्ञास्तु कचित् उपयुक्तेतरपदार्थः अवशिष्टः (अजपाल: ) ।
यथा श्राद्धशेषः भुक्तशेषः इत्यादी इत्यादुः । अत्र प्रसङ्गतः शेषरक्षण-
निषेधः संगृह्यते । ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । पुनः पुनः
प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ (गरुडपु० ) इति । ५ व्यवहार-
शास्त्रज्ञास्तु तदितर: ( मनु० टी० सर्वज्ञनारा० ९/१०५ ) । यथा
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं
तथा ॥ ( मनु० अ० ९ श्लो० १०५) इत्यादौ इत्याहुः ।
६ मीमांसकास्तु [ क ] परोदेशेन प्रवर्तमानो गुणीभूतः पदार्थः शेष:
( अङ्गम् ) । यथा बादरिमते द्रव्यगुणसंस्काराः शेषभूताः । जैमि-
निमते तु कर्माण्यपि शेषभूतानीत्याहुः ( शाबरमा० ३।१।४ ) ।
अत्र शेषत्वं च तदुद्देश्यकेच्छाविषयत्वम् । शेषित्वं तूहेश्यत्वमेव इति
बोध्यम् ( वै० सा० कारके० ४ पृ० १९५ ) । अत्र सूत्रम् शेषः
परार्थस्यात् ( जैमि० २३१११२ ) इति । तत्र भाष्यम् यः परस्योपकारे
बर्तते स शेषः ( शाबरभा० ३११/२ ) इति । तथा द्रष्यगुणसंस्का
रेड नादरिः ( जै० ३।१।३ ) इति कर्माण्यपि जैमिनिः फलार्थत्वात्
८८७