This page has not been fully proofread.

न्यायकोशः ।
 
८८५
 
भूतानि व्युचरन्ति ( बृह० उप० २११/२०) इति श्रुतिरंशांशिभावे
प्रमाणम् । तथा प्रपञ्चः संसारश्चेति द्विविधा सृष्टिः । तत्र प्रपञ्चस्य
भगवत्कार्यत्वेन सत्यत्वं नित्यत्वं च । संसारस्य तु मायाकार्यत्वेन मिथ्या-
त्वमेव इति । एतन्मते अभावमात्रं न स्वीक्रियते इति हृदयम् । अत्र
संग्रहः शुद्धाद्वैतप्रचारेण मायावाद निवर्तकान् । श्रीमदाचार्यचरणान्
प्रणमामि पुनः पुनः ॥ इति । वल्लभाचार्यैः षोडश ग्रन्थाः कृताः
इति ज्ञेयम् ।
 
-
 
शुद्धि: - १ मार्जनम् नैर्मल्यसंपादनं वा । तच्च [ क ] भस्मादिसंयोग-
समानकालीना स्पृश्यस्पर्श प्रतियोगि कयावदभावसहितभस्मादिसंयोगवंसः ।
यथा भस्मना कांस्यादिपात्रादिशुद्धिः ( त० दी० ) । अत्र कालीनान्तं
यावत्वं चाभावविशेषणम् । तादृशाभावसाहित्यं च ध्वंसविशेषणम् इति
बोध्यम् । यावदभावसहितेत्यत्र साहित्यं च संबन्ध विशेषनियन्त्रितं सामाना-
धिकरण्यम् (नील० पृ० ४६-४७ ) । अत्रान्ये आहुः । भोजनादि-
रूपकार्याईतारूपा कांस्यादावाधेयशक्तिः पदार्थान्तरमेव शुद्धिः । यद्वा
शुद्धिजनकत्वाभिमतेनाम्लादियोगेन ताम्रादौ तत्तद्रव्ये देवतासंनिधिरेव
शुद्धिः । एवम् प्रतिमादौ प्रतिष्ठादिना देवतासंनिधिरेव शुद्धिः । तथा
घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठाविधिना जयप्रयोजकीभूतो
धर्मो जन्यते । अशुद्धप्रतिज्ञामपेक्ष्य भङ्गप्रयोजकः अधर्मो जन्यते
इत्यायुधम् इति । एवम् परमाणुगत पाकज विशेषगुणात्पार्थिव कार्य विशेषो
द्रष्टव्यः । जलादावदृष्टादिनिमित्तभेदात्कार्यवै जात्यमूहनीयम् ( चि० ) ।
एवम् शुद्ध्यन्तरमपि स्वयमूह्यम् । [ ख ] तत्तत्समयावच्छेदेन भस्मादि-
संयोगप्रतियोगिकाना दिसंसर्गाभावः । स च तत्तत्समानकालीनचाण्डा-
लादिस्पर्शादि प्रतियोगिकया वदन। दिसंसर्गाभावसमानाधिकरणः ( न्या०
सि० दी० पृ० २० ) । २ धर्मज्ञास्तु वैदिककर्मयोग्यत्वसंपादकसंस्कारवि
शेष इत्याहुः । अत्र केचिदाहुः स च संस्कारो भस्मादिप्रयोक्तूनिष्ठ एव
इति । तदर्थस्तु भस्मादिसंयोगजनितः कांस्यायुपभोक्तृनिष्ठः संस्कारः
इति । अत्रेदमधिकं बोध्यम् । शुद्धयशुद्धी शास्त्रज्ञाप्ये संस्काररूपे ।
 
-