This page has not been fully proofread.

न्यायकोशः ।
 
विशिष्ठपर्वतत्वं तु न शुद्धम् । तस्य पर्वतस्वातिरिक्तसौन्दर्य रूपधर्मा-
क्रान्तत्वात् इति । २ शुद्धियुतम् ।
 
शुद्धा - ( लक्षणा ) [ क ] स्वशक्येन साक्षात्संबन्धः । यथा आयुर्घृतम्
इत्यादौ । अत्रायं भावः । आयुर्घृतयोः सामानाधिकरण्यानुपपत्त्या आयु:-
पदमायुःसाधनं लक्षयति । तत्र आयुः पदे शक्यजीवनकालसाधनत्व-
रूपसाक्षात्संबन्धस्य सत्त्वात् ( म० प्र० ४ पृ० ४१ ) इति । इयं
लक्षणा जहल्लक्षणायामजहल्लक्षणार्या चान्तर्भवति इति नातिरिक्ता इति
ज्ञेयम् ( न्या० म० ४ पृ० १० ) । [ ख ] सादृश्याद्भिन्नः शक्य-
संबन्धः । यथा आयुर्घृतम् इत्यादौ आयुः पदे लक्षणा । अत्र सादृश्या-
दन्यः शक्यसंबन्धश्च जन्यजनकभावः । तथा चात्र आयुःपदस्यायु-
र्जनके लक्षणा । तत्र आयु: पदशक्य संबन्धो जनकत्वरूपो बोध्यः ।
तेन आयुर्जनकाभिनं घृतम् इत्यन्वयबोध: ( त० प्र० ख० ४
पृ० ३६) । यथा वा गङ्गायां घोषः इत्यादौ गङ्गापदे लक्षणा । अत्र
सादृश्यादम्यः शक्यसंबन्धस्तु संयोग एव । स च प्रवाहप्रतियोगिक-
स्तीरानुयोगिकः इति विज्ञेयम् । सा च शुद्धा लक्षणा द्विविधा जह-
लक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १० ) । एते एव
लक्षणे लक्षणलक्षणा उपादानलक्षणा चेत्यालंकारिकैर्व्यवह्नियेते
 
( काव्यप्र० उ० २ श्लो० १०) ।
 
युद्धाद्वैतम् – वेदान्तमतविशेषः । यथा वल्लभाचार्यमतं शुद्धाद्वैतम् । अत्र
व्युत्पत्तिः शुद्धयोः कार्यकारणयोर्जीवब्रह्मणोः अद्वैतम् ऐक्यम् यत्र
तत् इति । अत्र शुद्धत्वं च मायासंबन्धराहित्यम् । तच्च इतरसंबन्धान-
वच्छिन्न कार्यकारणादिरूप द्वित्वप्रकारकज्ञान प्रतियोगिकाभाववत्त्वम् इति ।
केचित्तु शुद्धं च तत् अद्वैतं च इति कर्मधारय समासमङ्गीचक्रुः । एतन्मते
भक्तिमार्ग: जीवब्रह्मणोरंशांशिभावः सत्कार्यवादः अद्दिकुण्डलवरपरिणाम-
वादः जगतः सत्यत्वम् आविर्भावतिरोभावी च एतानि स्वीक्रियन्ते इति
ज्ञेयम् । अत्र स यथोर्णनाभिस्तन्तुनोच्चरेद्यथामे: क्षुद्रा विस्फुलिङ्गा
ब्युचरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि