This page has not been fully proofread.

न्यायकोशः ।
 
मुलश्रुतिरनुमातव्या ( अधिकरणमाळा १/३ अधि० ४ ) इति । अत्रा-
भिधीयते । ततः स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो
धर्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्ता दण्डनीतिः प्रजावर्णाश्रमेज्यया ।
शिराचर्यते यस्माच्छिष्टाचारः स शाश्वतः ॥ दानं सत्यं तपोलोभो
विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥
शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु शिष्टाचार-
स्ततः स्मृतः ॥ श्रुतिस्मृतिम्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टा-
चारविवृद्धस्तु स धर्मः साधुसंमतः ॥ ( मत्स्यपु० अ० १२५ ) इति ।
तपोलोभ इत्यत्र तपः अलोभः इति पदच्छेदः ।
 
-
 
शिष्यः - शिक्षणीयः ( उपदेश्यरछात्रः ) । यथा श्रीसत्यवतीसुतबादरायण-
व्यासस्य शिष्यः श्रीपूर्णप्रज्ञाचार्यः ( मध्वाचार्यः ) । शिष्यलक्षणं च
शान्तो विनीतः शुद्धात्मा श्रद्धावान् घारणे क्षमः । समर्थव कुलीनश्च
प्राज्ञः सञ्चरितो धनी ॥ एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा
( तन्नसा • ) इति । अत्रोच्यते गुरुता शिष्यता वापि तयोर्वत्सरवासतः
इति । तथा चोक्तं सारसंग्रहे सद्गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत् ।
वर्षेकेन भवेयोग्यो विप्रो गुणसमन्वितः ॥ इत्यादि । आाधारं शासये-
धस्तु स आचार्य उदाहृतः । य आचार्यपराधीनस्तद्वाक्यं धार्यते हृदि ।
शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः (पद्मपु० उ० अ० २५) ।
शीत: - १ ( गुणः ) स्पर्शविशेषः । यथा शीतस्पर्शवत्य आपः ( त०
सं० ) इत्यादौ । अत्र शीतत्वं च स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः
इति ज्ञेयम् । २ शीतस्पर्शयुक्तः पदार्थः । यथा शीतं शिलातलम्
(मु० १) इत्यादौ शीतशब्दस्यार्थः । ३ वृक्षविशेषः ।
 
-
 
शुक्र-१ मज्जातश्वरमधातुः । भत्रोक्तम् रसाद्रक्तं ततो मांस मांसान्मेदः
प्रजायते । मेदसोस्थि ततो मज्जा मज्जाच्छुकस्य संभवः ॥ ( भावप्र ० )
इति । ततः स्थूलो भागो रसो मासेन पुंसां शुक्रम् स्त्रीणां चार्तवं शुकं
च भवति । उक्तं च सुश्रुते एवं मासेन रसः शुको भवति स्त्रीणां चेति ।
एवं च रस एक केदारकुल्यान्यायेन सर्वान् धातून पूरयन् मासेन नव-