This page has not been fully proofread.

न्यायकोशः ।
 
८७९
 
शास्त्रमित्यभिधीयते ॥ यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोन्यो
ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ (मध्वभाष्य ० १/१/३ पृ०१५ )
इति । असच्छास्त्रं तु बौद्धचार्वाका दिप्रणीतशास्त्रम् । सांख्ययो-
गादिकं पाशुपतादिशास्त्रं च स्वबुद्धिरचितत्वेनासदेवेति विभावनीयम् ।
तद्यथोक्तम् अतो वेदविरुद्धार्थशास्त्रोक्तं कर्म संत्यजेत् । स्वबुद्धिर-
चितैः शास्त्रैः प्रतायेंह च बालिशान् ॥ विघ्नन्ति श्रेयसो मार्ग लोक-
नाशाय केवलम् । निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् ॥
तेन ते निरयं यान्ति ह्यसच्छास्त्र निषेवणात् । श्रुतिस्मृतिसदाचारविहितं
कर्म शाश्वतम् ॥ स्वं स्वं धर्म प्रयत्नेन श्रेयोर्थीइ समाचरेत् । स्वबुद्धिर-
चितैः शास्त्रैर्मोहयित्वा जनं नराः ॥ तेन ते निरयं यान्ति युगानां सप्त-
विंशतिम् ( पद्मपु० अ० १७ ) ( वाच ० ) इति । तामसशास्त्राणि च
पद्मपुराणे पार्वर्ती प्रतीश्वरेणोक्तानि यथा शृणु देवि प्रवक्ष्यामि ताम-
सानि यथाक्रमम् । येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥ प्रथमं हि
मयैवोक्तं शैवं पाशुपताभिधम् । मच्छत्त्यावेशितैर्विनैः संप्रोक्तानि ततः
परम् ॥ कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा
न्यायं सांख्यं तु कपिलेन वै ॥ द्विजन्मना जैमिनिना पूर्वे वेदमपार्थतः ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ विषणेन च संप्रोक्तं चार्वाक-
मतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥ बौद्धशास्त्र-
मसत्प्रोक्तं नमनीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव
च ॥ मयैव कथितं देवि कलौ ब्राह्मणरूपिणा । अपार्थ श्रुतिवाक्याना
दर्शयँलोकगर्हितम् ॥ कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते । सर्वकर्म-
परिभ्रंशा नैष्कर्म्यं तत्र चोच्यते ॥ परात्मजीत्रयोरैक्यं मयात्र प्रतिपाद्यते ।
ब्रह्मणोस्य परं रूपं निर्गुणं दर्शितं मया ॥ सर्वस्य जगतोप्यस्य नाशनार्थ
कठौ युगे । वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ॥ मयैव कथितं देवि
जगतो नाशकारणात् ( सांख्यप्रवचनभाष्यप्रस्तावनायां घृतानि पद्मपु-
राणवचनानि पृ० ६-७ ) ( वाच० ) ।
 
शिक्षा – १ [ क ] कर्तव्यत्वेन ज्ञानम् ( राम० ) । यथा अन्थारम्भे