This page has not been fully proofread.

म्यायकोशः ।
 
क्या नया एकदेशस्थल विशेषजातो विष्ण्वादिदेवचक्रयुतशिलाविशेषः ।
यथा ब्राह्मणगृहे नित्यं पूजनीयाः श्रीवासुदेवहयग्रीव श्री लक्ष्मीनृसिंहसीता-
रामाख्याः शालग्रामाः । शालमा मोत्पत्तिप्रकारस्तु कीटयोनिं प्रपद्येथाः
इति गण्डक्या: सुरान् प्रति शापे तेन कर्मविपाकेन जडा कृष्णा नदी
भव इति देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधाना-
योक्तं यथा शृणु ब्रह्मन् महादेव शृणु देव गजानन । मङ्गणौ ब्राह्मणौ
ग्राहमातङ्गौ शापतोत्र वै ॥ भविष्यतस्तयोर्मोक्षं वदिष्यामि कलेवरम् ।
शीर्ण भविष्यति यदा तन्मेदोमज्जसंभवाः ॥ पाषाणान्तर्गताः कीटा:
बज्राख्याः प्रभविष्यथ (ब्रह्मवै० अ० १९ ) इत्यादि । वासुदेवादिना-
मफलभेदास्तु वराहपुराणे ज्ञेयाः । अत्र प्रशंसा शालप्रामशिला स्पर्श ये
कुर्वन्ति दिने दिने । वाञ्छन्ति करसंस्पर्श तेषां देवाः सवासवाः ॥
इति ।
 
C04
 
शासनम् -१ [ क ] प्रवर्तकव्यापारः । स च धर्म कुरु इत्यादिविधिध-
ढितोपदेशरूपः । यथा माणवकं धर्मे शास्ति इत्यादौ शास्तेरर्थ: ( उ०
म० ) । [ ख ] निकृष्टस्य हितसाधनं प्रवर्तनम् । २ राजदत्तभूमिः ।
३ राजलेख्य विशेषः । ४ शिक्षा ( दण्डः ) इति व्यवहारज्ञा आहुः ।
 
शास्त्रम् - [ क ] प्रमाणादिवाचकपदसमूहः व्यूहविशिष्टः । यथा पञ्चा-
ध्यायी न्यायदर्शनम् शास्त्रम् ( न्या० वा० पृ० १-२ ) । अत्र
व्युत्पत्तिः शिष्यतेनेन ( शास- हून् ) इति शास्त्रम् । [ ख ] ज्ञान-
विशेषाधायकग्रन्थः । यथा वैशेषिकदर्शनम् । [ग] ऋग्यजुःसामा-
थर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यमिघीयते ॥
( सर्व० सं० १० १५७ पूर्णप्र० ) । [घ ] शास्ति च त्रायते चेति
शास्त्रम् । यच्छास्ति वः केशरिपूनशेषान् संत्रायते दुर्गतितो भवाच्च ।
तच्छासनात्राणगुणाञ्च शास्त्रमेतद्वयं चान्यमतेषु नास्ति ॥ ( नागार्जुन-
कृतकारिका ५ बौद्धदर्शने ) । शास्त्रं द्विविधम् सच्छास्त्रम् असच्छास्त्रं
च । तत्र सच्छास्त्रं हितानुशासनप्रन्थः । यथा ऋगादिशास्त्रम् । तदुक्तं
स्कान्दे ऋग्यजुःसामाथर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव