2023-02-20 00:57:06 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विशेष्यकः सर्वतत्रसिद्धो बोध: । पश्य मृगो धावति इत्यादौ मृगामिन्न-
कर्तृकं घावनं पश्य इति क्रियामुख्य विशेष्यको बोधः । अत्र वैयाकर-
णानामयमाशयः । घावनक्रियाया एव दृशिक्रियायां कर्मतयान्वयो विव-
क्षितः। तस्याश्च प्रातिपदिकार्थत्वाभावान्न धावतिपदोत्तरं द्वितीया । नैया-
यिकमते तु मृगपदार्थस्य दृशिक्रियायामन्वयेन तस्य प्रातिपदिकार्थत्वेन च
मृगपदोत्तरं द्वितीयापत्तिः इति । पचति भवति इत्यादौ पाकामिन्नकर्तृकं
भवनम् इति क्रियामुख्य विशेष्यको बोधः । शृणु मेघो गर्जति इत्यादौ
तु मेघाभिन्नकर्तृकं गर्जनं शृणु इति गर्जनरूपधात्वर्थ मुख्यविशेष्यकः
शाब्दबोधो वैयाकरणानां संमतः । अत्रायं भावः । श्रुधात्वर्धश्रवण-
यायां शब्दरूपस्य गर्जनस्यैव योग्यतयान्वयः । न तु नैयायिकमत इव
गर्जनकर्तृमेघस्य कर्मतासंबन्धेनान्वयः । अयोग्यत्वात् इति । प्रथमान्ता-
र्थमुख्य विशेष्यकशाब्दबोधानीकर्तृनैयायिकमते तादृशबोधोपपादकमुख्यो-
दाहरणानि तु घटो न भवति पटः त्रयः कालाः पश्य लक्ष्मण पम्पायां
बकः परमधार्मिकः । अश्वो गच्छत्यानय इत्यादीनि द्रष्टव्यानि । घटो
न भवति पटः इति वाक्यात् घटमेदवान् पटः इति प्रथमान्तार्थमुख्य-
विशेष्यको बोधः । त्रयः कालाः इत्यत्र त्रित्व विशिष्टाः कालाः इति काल-
मुख्यविशेष्यक एव बोध: : । अत्र नैयायिकानामयमाशयः । त्रयः कालाः
इत्यत्र क्रियासममिव्याहाराभावान्न क्रियामुख्यविशेष्यको बोधः । कालत्र-
यस्य जीवेन ज्ञातुमशक्यत्वेन जीवेन ज्ञायन्ते इत्यध्याहारासंभवः ।
ईश्वरेण ज्ञायन्ते इत्यध्याहारे क्रियमाणे तु मानाभावः । अस्तिर्भवन्तीपर:
प्रथमपुरुषोप्रयुज्यमानोप्यस्ति इति महाभाष्योक्त (२।३।२) नियमानुसारेण
सन्ति इत्यस्य तु नाध्याहारः संभवति । इदानीं त्रयाणां कालानामविद्य-
मानस्वात् इति । परमधार्मिको बकः पश्य इत्यादौ परमधार्मिकत्वविशि
टबकं पश्य इति बोधः । अत्रायं भावः । परमधार्मिकत्वविशिष्टबकस्य
वाक्यार्थत्वेन पदार्थत्वाभावात्प्रातिपदिकार्थत्वमेव नास्ति इति न बकप-
दोत्तरं द्वितीयापत्तिः । एवमेव पश्य मृगो धावति इत्यादाबप्युपपत्ति-
ष्टव्या । पचति भवति इत्यादौ तु तथा भाष्यप्रयोगादेव क्रियामुख्यवि-
:।