This page has not been fully proofread.

न्यायकोशः ।
 
c04
 
ग्रामः
 

 
गम्यते ग्रामः इत्यस्य देवदत्तवृत्तिकृतिजन्यगमनजम्यफलशाली
इत्यर्थः । तथा हि वृत्तित्वं संसर्गमर्यादया लम्यम् । तृतीयायाश्च कृतिरर्थः ।
जन्यत्वं संसर्गः । गमनं धात्वर्थः । जन्यत्वं संसर्गः । फलं कर्मात्मने-
पदार्थः । शालित्वं संसर्गः इति । भावप्रत्यये तु देवदत्तेन सुप्यते इत्यस्य
देवदत्तवृत्तिकृतिजन्यः स्वापः इत्यर्थः । भावप्रत्ययस्थले फलाभावादात्म-
नेपदार्थो न भासते ( तर्का० ४ पृ० ११ ) । शाब्दबोधो द्विविधः
यथार्थ: अयथार्थश्च । तत्राद्यः शाब्दप्रमा । सा च यथा नद्यास्तीरे पञ्च
फलानि सन्ति इत्यादिवाक्यार्थगोचरयथार्थज्ञानम् । अत्र फलवत्प्रवृत्तिज-
ननयोग्यत्वं यथार्थत्वम् इति विज्ञेयम् ( त० कौ० १ पृ० ७ ) ।
द्वितीयः अग्निना सिञ्चति इत्याद्ययोग्यवाक्यजन्यः शाब्दबोध: । द्विवि-
धोपि शाब्दबोधः प्रत्येकं द्विविधः मेदान्वयविषयकः अभेदान्वयविषय-
कश्च । तत्रायो राज्ञः पुरुषः इत्यादिवाक्यजन्यः । द्वितीयो नीलो
घटः इत्यादिवाक्यजन्यः । अत्र अभेदान्वयबोधं प्रति समानविभक्ति-
लिङ्गवचनकवं प्रयोजकम् इति सामान्यनियमो विज्ञेयः । तत्र समा-
नविभक्तिकत्वं च स्वप्रकृतिक विभक्तिसजातीयविभक्तिकत्वम् विरुद्ध विभ
क्तिराहित्यं वा (ग० व्यु० १ ) । शिष्टं तु समान विभक्तिकत्वशब्दे

दृश्यम् । अत्र विप्रतिपत्तिः । सामान्यतः शाब्दबोधश्च धात्वर्थमुख्य विशे-
व्यकः प्रथमान्तार्थमुख्य विशेष्यको वा इति । तत्र धास्वर्थमुख्य विशेष्यक
एव भवति इति वैयाकरणा आहुः । तत्र प्रमाणं तु भावप्रधानमा-
ख्यातम् इति यास्कमुनिवचनम् । नैयायिकास्तु शाब्दबोधः प्रथमान्ता-
र्थमुख्य विशेष्यक एव ज्यायान् इति प्रादुः । नैयायिकानां मते तु भाव-
प्रधानमाख्यातम् इति निरुक्तस्य भावः धात्वर्थः प्रधानं विशेष्यः यस्य
आरूपातार्थस्य इति शाब्दिकादिसंमतं बहुव्रीहिमनादृत्य भाषस्य प्रधानम्
इति षष्ठीतत्पुरुष आश्रीयते । लाघवात् । तत्र धात्वर्थमुख्यविशेष्यक-
शाब्दबोधानी कर्तृवैयाकरणमते तादृशबोधोपपादकमुख्योदाहरणानि च
चैत्रेण सुप्यते पश्य मृगो धावति पचति भवति शृणु मेघो गर्जति इत्या-
दीनि । अत्र चैत्रेण सुप्यते इत्यादौ चैत्रकर्तृकः खापः इति क्रियामुख्य-