This page has not been fully proofread.

न्यायकोशः ।
 
करणम् । न तु पदज्ञानं करणम् ( त० प्र० ख० ४ पृ० १ ) ( मु०
४ पृ० १७४ ) ( भा०प० ) ( त० कौ० ) इति । अत्र नव्या आहुः ।
ज्ञायमानपदस्य करणत्वाकारे पदाभावेपि मौनिश्लोकादिना हस्तचेष्टा-
दिना च शाब्दबोध उत्पद्यते स न स्यात् । अतस्तत्र शाब्दबोधोपपत्तये
पदज्ञानमेव करणम् न तु ज्ञायमानं पदं करणम् इत्यवश्यमङ्गीकर्त-
व्यम् ( मु० ४ पृ० १७४ ) इति । वाक्यार्थज्ञानमित्यस्य एकप-
दार्थेपरपदार्थ संसर्गविषयकं ज्ञानम् इत्यर्थः ( वाक्य० ४ ) । यथा
गामानय इति वाक्यजन्यः गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति
शाब्दबोधः । अत्रेयं शाब्दबोधप्रक्रिया । प्रथमं गवादिपदानां गवादौ गवा-
दिर्गवादिपदशक्यो लक्ष्यो वा इति संबन्धज्ञानम् । ततः कालान्तरे
केनचित् गामानय त्वम् इत्युक्ते गवादिपदेभ्यो गवादीनर्थान्स्मरति ।
आकाङ्क्षादीजानतस्तदनन्तरं गोकर्मकानयनानुकूलकृतिमांस्त्वम् इति
शाब्दबुद्धिर्जायते ( वाक्य० ४ ) इति । अत्र पदस्य पदार्थस्मारकत्वं च
एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति न्यायेन बोध्यम् ( त० प्र०
४ पृ० ९२ ) । यथा वा चैत्रस्तण्डुलं पचति देवदत्तो ग्रामं गच्छति
इत्यादितच शाब्दबोधः । नैयायिकमते कर्त्राख्यातस्थले चैत्रः पचती-
त्यादौ पाकानुकूलकृतिमांश्चैत्रः इति शाब्दबोध: । कर्माख्यातस्थले तु
चैत्रेण पच्यते तण्डुल इत्यादौ तृतीयाया आधेयत्वमर्थः । फलावच्छिन्न-
व्यापारो धात्वर्थः । आख्यातबलाच्च कृतेर्लाभः । तथा च चैत्रनिष्ठक-
तिजन्यपाकजन्यफलशाली तण्डुलः इत्यन्वयबोध: ( त० प्र० ख० ४
पृ० ८५ ) । देवदत्तो आमं गच्छतीत्यत्र द्वितीयाया अर्थः कर्मत्वम् ।
धातोरर्थो गमनम् । जनकत्वं संसर्गमर्यादया लम्यम् । लटो वर्तमानत्व-
मर्थः । आख्यातस्य कृतिरर्थः । तत्संबन्धः संसर्गमर्यादालभ्यः । एकवच-
नाद्युपस्थापितमेकत्वादि सर्वत्र प्रथमान्तपदोपस्थापितेन्वेति । एवं च
ग्रामकर्मकगमन जनकवर्तमानकृतिमान् एकत्वविशिष्टो देवदत्तः इत्यन्वय-
बोषः । यत्र कर्तरि कृतेर्बाधस्तत्राख्यातस्य व्यापारादौ लक्षणा । यथा
रथो गच्छतीत्यत्र गमनजनक वर्तमान व्यापारवान् इत्यर्थः । देवदत्तेन
 
८७४