2023-02-20 00:57:06 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८७३
च इत्याहुः । ३ दुर्गादेवी इति शाक्ता आहुः । ४ दैवज्ञास्तु पूजाहोमजप-
दानादिद्वारा गोचरविलग्नादिस्थग्रह दौस्थ्यदुःस्वप्नादिसूचितैहिकानिष्टहेतु-
पापनिवृत्तिः । तदुक्तम् यथा शस्त्रप्रहाराणां कवचं विनिवारकम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥ ( मलमासधृतवाक्यम् ) ।
यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः । आलं-
कारिकास्तु शमस्थायिभावक निर्वेदव्यभिचारिभावकशान्ताख्यरसविशेष-
निष्ठो धर्मविशेष: इत्याहुः । तदुक्तम् शान्तः शमस्थायिभाव उत्तम-
प्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ ( सा० ८०
परि० ३ श्लो० २४५ पृ० १८४ ) इत्यादि ।
शाब्दज्ञानम् - शाब्दबोधशब्दवदस्यार्थोनुसंधेयः ।
-
-
शाब्दबोधः - ( अनुभव:) पदज्ञानकरणकं ज्ञानम् (मु० १ ) । तच्च
वाक्यार्थज्ञानम् ( त० सं० ४ ) । अत्र व्युत्पत्तिः शब्दाज्जायमानो
बोध: शाब्दबोधः इति । तत्र बोधे शाब्दत्वं च शब्दात्प्रत्येमि इत्यनुभव-
सिद्धो जातिविशेषः । अथ वा जन्यपदधीजन्यत्वव्यभिचार्यनुभवत्वाव्या-
पकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यचीत्वम् । विप्र-
ह्श्च जन्यपदधीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च या जातिः
प्रत्यक्षत्वादिः तच्छून्यत्त्रे सति पदविषयकत्वाव्यभिचारिणी या जाति:
उपमितिस्वम् तच्छ्रन्यधीत्वम् ( त० प्र० परि० ४ पृ० ३) इति ।
अत्र पदप्रयोजनम् सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । उपमि-
तावतिव्याप्तिवारणाय शून्यान्तम् (न्या० म० परि० ४१५० १-२ ) ।
शाब्दबोधलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेन पदजन्यपदार्थस्मृतिस्वाव-
च्छिन्नकारणता निरूपितकार्यत्वम् (वाक्य ० ४ ) । शाब्दबोधे च पद-
ज्ञानं करणम् । पदार्थोपस्थितिर्व्यापारः । शाब्दबोधः फलम् । पदज्ञा-
नस्य च शक्तिज्ञानम् आकाढायोग्यतासंनिधीनां ज्ञानं च सहकारि इति
नव्यनैयायिकानां मतम् । अत्र विज्ञेयम् । तस्यां पदार्थोपस्थितौ वृत्तित्वेन
वृत्तिज्ञानं सहकारि न तु शक्तित्वेन लक्षणात्वेन षा प्रातिस्विकरूपेण
ज्ञानं सहकारि इति । प्राचां मतं तु तत्र शाब्दबोधे ज्ञायमानं पदमेव
११० न्या० को●