This page has not been fully proofread.

८७२
 
न्यायकोशः ।
 
यथा गर्भाशयगतं शुक्रमार्तवं जीत्रसंज्ञकः । प्रकृतिः सविकारा च
तत्सर्वं गर्भसंज्ञकम् ॥ कालेन वर्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवे-
तदा स मुनिभिः शरीरीति निगद्यते ॥ इति । तल्लक्षणादिकं तु जीव-
शब्दब्याख्याने दृश्यम् ।
 
शर्कराः – मृत्तिकामिश्रा: क्षुद्रपाषाणाः शर्करा: ( जै० न्या० अ० १
पा० ४ अधि० १९) ।
 

 
शस्त्रम् – अप्रगीतमन्त्रसाध्या स्तुतिः ( जै० न्या० अ० २ पा० १
अधि० ५) ।
 
शांकरम् – आर्द्रा ( पु० चि० पृ० ३५३ ) ग
शांभवी - ( कल्याणीशब्दे दृश्यम् ) ।
 

 
शाक्यः – बुद्धः । शाक्यशब्द निरुक्तिरन्यथोक्ता । यथा शाकवृक्षप्रतिच्छन्नं
वासं यस्मात्प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः ॥
इति भरतधृतवचनम् । इयमत्राख्यायिका । पितृशप्ताः केचिदिवा-
कुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवासाः
शाक्य इति ख्यातिमापन्नाः इति (वाच० ) । शिष्टं तु बुद्धशब्दे दृश्यम् ।
शाक्यायनम् – ( यागः ) षट् त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम्
( जै० न्या० अ० ३ पा० ८ अधि० २३ ) ।
 
शाठीसम: - ( जाति: ) त्वत्पक्षे किंचिद्दूषणं भविष्यति इति शङ्का ( गौ ०
वृ० ५ । १ । ३७ ) । अयं शाठीसमश्च सूत्रानुक्तोपि कार्यसमप्रभेदः इति
वृत्तिकृता प्रतिपाद्यते इति विज्ञेयम् ।
 
शानच् – ( प्रत्ययः ) १ प्रकृतधात्वर्थकर्ता कर्तृशानचोर्थः (तर्का० ४
पृ० १२ ) । यथा पचमानः इत्यादौ । २ धात्वर्थजन्यफलवान् कर्म-
शानचोर्थः । यथा पच्यमान इत्यादौ । एवं कृतामप्यर्था ऊह्याः । भाव-
कृतां ल्युट्धनादीनां तु प्रयोगसाधुत्वमात्रं प्रयोजनम् इति विज्ञेयम् ।
शांन्तिः - १ उपद्रवनिवारणम् । यथा शान्ता पृथिवी शान्तं पापम्
इत्यादौ । २ वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो निवारणं