2023-02-20 00:57:06 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८०१
कवायुसंबन्धात् । अन्यथा तादृशवायुसंबन्धानङ्गीकारे भग्नक्षतसंरोहणा-
दिकं न स्यात् । किं च वृक्षादयोपि शरीरमेदा एव । भोगाधिष्ठान-
त्वात् । न खलु भोगाधिष्ठानत्वमन्तरेण जीवन स्मरणस्वप्नजागरणभेष-
जप्रयोगबीजसजातीया नुबन्धानुकूलोपगमप्रतिकूलापगमादयः संभवन्ति ।
भोगोपपादकः प्राणवायुः । तदुपपादकं तु वृद्धिक्षतभन्नसंरोहणादिकम्
इति । आगमोप्यस्ति प्रमाणम् नर्मदातीरसंभूताः सरलार्जुनपादपाः ।
नर्मदातोयसंस्पर्शात्ते यान्ति परमां गतिम् ॥ गुरुं हुंकृत्य तुंऋत्य विप्रं
निर्जित्य वादतः । इमशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ॥ (वै० उ०
४/२/५ ) ( दि० ११२ ) इत्यादि । तथा शरीरजैः कर्मदोषैर्याति
स्थावरतां नरः ( याज्ञ० ) ( त० व० पृ० ११६ ) इत्यादि । मन्वा -
दिविषये तु श्रूयते ब्रह्मणो मानसा मन्वादयः पुत्राः इति । ब्राह्मणमपि
प्रजापतिः प्रजा अनेका असृजत् । स तपोतप्यत । प्रजाः सृजेयमिति ।
स मुखतो ब्राह्मणमसृजत् । बाहुभ्यां राजन्यम् । ऊरुम्यां वैश्यम् ।
पद्भ्यां शूद्रम् ( वै० उ० ४।२।११ ) इति । दुर्वासः प्रभृतयो मानसाः
अहंकारेभ्यः समभवदङ्गिराः इति समाख्या ( वै० ४।२८ ) (१०
मा० ) । केचित्त देवादीनां शरीरं तैजसमाहुः ( त० व० ) । अत्रेदं
बोध्यम् । क्षुद्रजन्तूना मूष्मजानां मशकादीनां तु यातनाशरीरमप्ययो-
निजमेव ( वै० उ० ४/२९५ ) ( मु० १ ) ( सि० च० ) इति ।
एतच्छरीरं त्वधर्मविशेषसहितेभ्योणुभ्य एव जायते इति ज्ञेयम् ( ३०
४।२।७ ) ( प ० मा० ) । सुश्रुते विशेष उक्तः । द्रव्याणि पुनरोषधयः ।
ता द्विविधाः स्थावराः जङ्गमाव । तासां स्थावराश्चतुर्विधाः वनस्प-
तयः वृक्षाः वीरुधः ओषधयश्च इति । जङ्गमा अपि चतुर्विधाः जरायु-
जाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगस-
पेसरीसृपप्रभृतयोण्डजा: । क्रिमिकीटपिपीलिकाप्रभृतयः खेदजा: । इन्द्र-
गोपमण्डूकप्रभृतय उद्भिज्जाः इति ।
शरीरी – जीवात्मा । यथा अथाकाशशरीरिणाम् ( भा०प० श्लो० २७)
इत्यादौ शरीरिशब्दस्यार्थः । तत्स्वरूपं भावप्रकाशे सुश्रुतादौ चोकं