This page has not been fully proofread.

TUO
 
न्यायकोशः ।
 
से शरीरम् इति श्रूयते ( वात्स्या० ३।१।३२ ) । मानुषादिशरीरेषु वेद-
पाकादीनां जलादिविकाराणामुपलब्धिस्तु पञ्चानां भूतानां परस्परमुपष्ट-
म्भकसंयोगादेव (वै० ४/२/२-४ ) ( गौ० ३११/३१ ) इति ।
एवं जलीय तैजसवायवीयशरीरेष्वपि विज्ञेयम् । शरीरं द्विविधम् योनिजम्
अयोनिजं च ( बै० ४।२।५ ) । शुक्रशोणितसंनिपातजन्यं योनिजम्
( प्रशस्त० पृ० ४ ) । अयोनिजं च शुक्रशोणितसंनिपातानपेक्षम्
( बै० उ० ४/२/५ ) ( प्रशस्त ० पृ० ४ ) । योनिजमयोनिजं च
पार्थिव शरीरम् । तदुक्तं योगार्णवे देहश्चतुर्विधो जन्तोर्ज्ञेय उत्पत्तिभेदतः ।
उद्भिज्जः स्वेदजोण्डोत्थश्चतुर्थश्च जरायुजः ॥ उद्भिद्य भूमिं निर्गच्छन्नु-
द्भिज्जः स्थावरश्च यः । उद्भिज्जा: स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः ॥
( वाच० ) इति । आप्यं तैजसं वायवीयं चायोनिजमेव वरुणादित्यवायु-
लोकेषु प्रसिद्धं च ( वै० उ० ४।२।११) । तत्र प्रमाणमनुमानम् । तच्च
जलत्वाद्यपि सामान्यं शरीरसमवायिगम् । द्रव्यारम्भक नित्य स्थजातिवा-
पृथिवीत्ववत् ॥ (त० व० प्रमाणपरि० पृ० ११६) इति । तत्र योनिजं
पार्थिवशरीरम् द्विविधम् जरायुजम् अण्डजं च । जरायुजं मानुषपशुमृ-
गाणाम् । अण्डजं पक्षिसरीसृपाणाम् ( प्रशस्त० पृ० ४ ) । कीट-
मत्स्यादयोपि सरीसृपवदेव (वै० उ० ४/२/५ ) । अयोनिजं पार्थि-
वशरीरं च त्रिविधम् स्वेदजम् उद्भिज्जम् अदृष्टविशेषजन्यं च । अत्रेदं
बोध्यम् । अयोनिजपार्थिव
शरीराणामुत्पत्तिर्धर्मविशेषसहितेभ्योणुम्य एव
स्वीक्रियते ( दि० १ ) ( त० कौ० ) । अहंकारेभ्यः समभवदङ्गिराः
इत्यन्वर्थसंज्ञाया आगमेपि दर्शनात् (त० व० पृ० ११७) इति । तत्र
स्वेदजं शरीरं यूकालिक्षादीनाम् । उद्भिज्जं वृक्षतृणगुल्मादीनाम् । अदृष्टवि-
शेषजन्यं मन्वादीनां देवर्षिनारदादीनां च ( त० कौ० ) । यद्यपि वृक्षा-
दीनां शरीरत्वमस्त्येव । तथापि चेष्टावस्खमिन्द्रियवत्वं च नोद्भिदां स्फुटत-
रम् । अतो न शरीरव्यवहारः ( वै० उ० ४।२।५ ) । अतः केचित्
वृक्षादीनां शरीरत्वं नेच्छन्ति (त० व० पृ० ११६) । अथ वृक्षादीनां
शरीरत्वे प्रमाणमनुमानं प्रदर्श्यते । वृक्षादावपि चेष्टास्त्येव । आध्यात्मि-
.