This page has not been fully proofread.

न्यायकोषः ।
 
- तत्तद्भिनभिन्न इति स्पष्टार्थः । इत्थं च घटपटसम्मैतद्भेदवान् यः पाषाणादिः
तद्भेदो घंटे वर्तत इति विज्ञेयम् । [ग ] बहूनां मध्ये निर्धारितमेकं
वस्तु इति शाब्दिका वदन्ति ।
 
अन्यतरत् – [ क ] मेदद्वयावच्छिन्न प्रतियोगिताकमेदवत् । यथा घटो
घटपटान्यतरो भवति । [ ख ] द्वयोर्मध्ये निर्धारितमेकं वस्तु इति
शाब्दिका वदन्ति ।
 
अन्यत्वम् – १ मेदः । यथा - उत्थितं सहशेन्यञ्च कबन्धेम्यो न किंचने-
त्यादौ । यथा वा घटः पटादन्य इत्यादौ । एवमितरत्वं मिनत्वमित्यादि
बोध्यम् । २ सादृश्यम् । यथा नान्वये सति सर्वस्वं यथान्यस्मै प्रति-
श्रुतम् इत्यादौ ( वाच० ) ।
 
-
 
अन्यथा – १ अभावः । यथा अन्यथानुपपत्तिरित्यादौ । २ अन्यप्रकारः ।
यथा यदभावि न तद्भावि भावि चेन तदन्यथा इत्यादी (बाम्ब० ) ।
अन्यथाख्यातिः - [क] ( ख्यातिः ) अयथार्थानुभव: ( नील० ३७)
( सि० च० १९ ) । अत्रेदं बोध्यम् । अन्यथाख्यातिमः । स च यस्य
यद्धर्मवस्त्रेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञानम् । यथा हृदो वह्निमान्
इति ज्ञानम् । तच विशिष्टमेकं ज्ञानम् प्रवर्तकत्वादिति नैयायिकाः ।
मीमांसकादयस्तु-तत्र ज्ञानद्वयम् । वहिज्ञानं हृदज्ञानं च असंसर्गाप्र-
हवशाच तयोः विशिष्टज्ञानकार्यकारिता । सति च हृदे बहेरसंसर्गज्ञाने
तत्र न प्रवृत्तिरित्यतः असंसर्गाग्रह एव तत्प्रवर्तकः । अप्रवृत्तिस्तु तदभावे
इत्याहुः । केचिद्वेदान्तिनस्तु धर्मिणः असंनिकर्षस्थले नान्यथाख्यातिः ।
किं त अलौकिकपदार्थान्तरोत्पस्या तस्य लौकिकं प्रत्यक्षं जायते । यथा
इदं रजत मिति ज्ञानमित्याडुः (वाच०)। [ख] भ्रमात्मकशानीयप्रकारता ।
यथा इदं रजतम् इति ज्ञाने रजतत्वस्य तादृशप्रकारता । सत्र रजतत्वप्रकार-
कत्वावच्छेदेन शुक्तिविशेष्यकत्व मन्यथाख्यातिरिति केचित् (मू० म० १ ) ।
बाचस्पतिमिश्रास्तु शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशक्तिरजतत्वयो-
रलीक एव समवायो भासत इत्यसमातिमी (सि० ० १९)
अन्यथानुपपत्ति:-लाभावप्रयोज्यासंभवः । यथा पीनो बेच दिवा