This page has not been fully proofread.

न्यायकोशः ।
 
८६७
 
शब्दो निर्दोषशब्दत्वात् आगमः इत्युच्यते । आगमो द्विविधः अपौरुषेय:
पौरुषेयश्चेति । तत्रापौरुषेय ऋगादिः सदागमः । पौरुषेयो महाभार-
तादिः सदागमः इति । तदुक्तम् आगमो द्विविधो ज्ञेयो नित्योनित्यस्त-
थैव च । ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ॥ मूलरामायणं चैव
पुराणं चैतदात्मकम् । ये चानुयायिनस्तेषां सर्वे ते च सदागमाः ॥
दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ( प्र० च० परि० १ पृ०
४१ ) इति । अत्र अपौरुषेयत्वादिविचारणं तु वेदशब्दव्याख्यानावसरे
कृतम् इति तत्तत्र दृश्यम् । अप्रमाणशब्दस्तु दोषवत्त्वात् आगमाभासः
इत्युच्यते । शब्ददोषास्तु अबोधकत्वम् विपरीतबोधकत्वम् ज्ञातज्ञापक-
त्वम् अप्रयोजनवत्त्वम् अनभिमतप्रयोजनवत्त्वम् अशक्यसाधनप्रतिपाद-
नम् लघुपाये सति गुरूपायोपदेशनम् इत्याद्याः । तत्र अबोधकत्वं द्वेषा
निरभिधेयत्वेन अन्वयाभावेन चेति । तत्राद्यस्योदाहरणम् कचटतपानां
जबगडदत्वात् इति । द्वितीयस्योदाहरणम् गौरश्वः पुरुषो हस्ती कुण्डमजा-
जिनं दश दाडिमानि षडपूपाः इत्यादि । विपरीत बोधकत्वस्योदाहरणम्
विमतं मिथ्या शूद्राणां वेदविद्याधिकारोस्ति ब्राह्मणानां नास्ति इत्यादि ।
ज्ञातज्ञापकत्वस्योदाहरणम् पुरस्तादादित्य उदेति पश्चादस्तमेति मधुरो
गुडः तिक्तं निम्बफलम् इत्यादि । अप्रयोजनवत्त्वस्योदाहरणम् काकस्य
कति वा दन्ता मेषस्याण्डं कियत्पलम् । कम्बले कति रोमाणि का वार्ता
चोलमण्डले ॥ इत्यादि । अनभिमतप्रयोजनबत्त्वस्योदाहरणम् विरक्तं प्रति
वाणिज्योपदेशः इत्यादि । अशक्यसाधनप्रतिपादनस्योदाहरणम् मृतमु-
द्दिश्य मृतिहरहिममहीधरोत्तरसानुसिद्धमृतसंजीवनी कथनादि । लघुपाये
सति गुरूपायोपदेशनस्योदाहरणम् नखेन जायमानं कार्ये कुठारेण कुछ
इति तृषितं प्रति गीर्वाणतरङ्गिणीतीरे कूपखननोपदेशः इत्यादि ( प्र०
च० परि० १ पृ० ३६ ) ।
 
ब्दपुनरुक्तम् –( पुनरुक्तम् निग्रहस्थानम् ) [ क ] शब्दार्थयोः पुमर्व-
चनं पुनरुक्तमन्यत्रानुवादात् ( गौ० ५/२/१४ ) । [ख] समानार्थक-
समानानुपूर्वी कशब्दप्रयोगः । यथा घटो घटः (गौ० दृ० ५/२/१४ ) इति ।