This page has not been fully proofread.

न्यायकोशः ।
 
चिनैयायिकानां मते धीचीतरङ्गन्यायेन तदुत्पत्तिः । केषांचिन्मते तु
कदम्बकोरकन्यायेन तदुत्पत्तिः ( भा०प० श्लो० १६७ ) । तत्राचा
तदुत्पत्तिर्यथा आद्यया वीच्यान्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण
व महत्तरं तरङ्गान्तरम् । तद्वत् आद्यशब्देन बहिर्दशदिगवच्छिन्नोन्यशब्द-
स्तेनैव शब्देन जन्यते तेन चापरस्तद्व्यापकः शब्दः इत्येवं क्रमेण श्रोत्रो-
त्पनः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात्तद्देशावच्छेदेनाद्यशब्दस्यो-
त्पत्तिः । अनन्तरम् सवहिर्दशदिगवच्छेदेन प्रथमशब्दात्तद्व्यापको द्वितीयः
शब्दः । ततस्तद्बहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्दाद्भवति
इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या । द्वितीया तदुत्पत्तिर्यथा
कदम्ब पुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः तद्वत् आद्यशब्दाद्द-
शसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इत्येवं
सर्वासु दिक्षूपर्युपरि शब्दानामुत्पत्तिः (मु० गु० पृ० २३६ ) इति ।
द्वितीयादिशब्दो नैकः न वा दशदिगवच्छिन्नः । किं तु दशसु दिक्षु
द्वितीयाद्याः शब्दा दश उत्पद्यन्ते इत्येतन्मते विशेषः (बै० वि०
२।२।३७ ) । वायुगतेः समानत्वे प्रथमः पक्षः । असमानत्वं द्वितीय इति
बोध्यम् । वैयाकरणास्तु वर्ण: अकारादिः नित्यः इत्याहु: ( न्या० म० ४
पृ० ३१) (चि० ४ ) ( त० सं० ) ( सि० च० ) ( त० दी० )
( नील० ) । तन्मते वर्णानां नित्यत्वे प्रमाणमनुमानम् । तच्च वर्णो
नित्यो ध्वन्यन्यशब्दत्वात् स्फोटबत् ( न्या० म० ४ पृ० ३१ ) इति ।
तत्र अर्थबोधकशब्दं स्फोटात्मकमिच्छन्ति वैयाकरणाः । तथा च पञ्चा-
शद्वर्णा: अष्टाक्षरो मत्र: त्र्यक्षरो मन्त्रः अष्टाक्षरानुष्टुप् इत्यादिसंख्याप्यु -
पपद्यते इति । तन्न सहन्ते वैशेषिकाः । पञ्चाशदादिसंख्यायाः सद्भावः
कत्वगत्वादिजातित एवोपपद्यते इति न वर्णानां नित्यत्वम् इति (वै०
२।२।३७ ) । शब्दो न प्रमाणम् इति सौगता आहुः ( प्र० प्र० ४) ।
मीमांसकास्तु वैदिकशब्दः प्रमाणम् लौकिकस्त्वनुषादकः इत्याहुः ( म०
प्र० ४ ) । अत्र मध्वमतानुयायिवेदान्तिनस्तु वेदान्तोपयोगित्वेनैवं शब्दं
विभजन्ते । शब्दो द्विविधः प्रमाणशब्दः अप्रमाणशब्दक्ष । तत्र प्रमाण-