This page has not been fully proofread.

८६४
 
न्यायकोशः ।
 
लौकिक: शब्द आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एष प्रमाण-
भूतः । परमाप्तेन भगवता प्रणीतत्वात् । प्रकारान्तरेणापि प्रमाण-
शब्दो द्विविधः दृष्टार्थ: अदृष्टार्थश्च । तत्राद्यो घटोस्ति इत्यादिरूपः ।
द्वितीयः स्वर्गनरकापूर्वादिशब्दः इति । अप्रमाणशब्दस्तु वहिना सिश्चेत्
गौरश्वः पुरुषो हस्ती इत्यादिरूपः इति । अत्र शब्दो न प्रमाणम् ।
शाब्दज्ञानं तु लैङ्गिकमेव । तथा च शब्दोनुमान एवान्तर्भवति इति
वैशेषिकमतम् (वै० ९/२/३ ) । वैशेषिकादीनामाशयस्तु प्रमाण-
शब्दव्याख्यानावसरे ( पृ० ५५४ ) प्रकटीकृतः । नैयायिकास्तु पृथ
गेव शब्दो मानम् । तत्र प्रमाणं सूत्रम् आप्तोपदेशसामर्थ्याच्छब्दादर्थसं-
प्रत्ययः ( गौ० २।१।५२ ) इति । न त्वनुमान विधया मानम् । शब्द-
स्यार्थाव्याप्यत्वात् । न हि यत्र शब्दस्तत्र घटानयनादिरूपोर्थः इति
व्याप्तिः : । शब्दस्याकाशवृत्तित्वात् । घटादेव तदवृत्तित्वात् ( न्या० म०
४ ) । तथा च शब्दो ह्यतिरिक्तं प्रमाणम् । तच्च शब्दात्प्रत्येमि इत्यनुव्य-
वसायगम्यज्ञानस्य प्रत्यक्षानुमित्यादिप्रतीतितो विलक्षणत्वेन तादृशज्ञा-
नकरणत्वेन सिद्ध्यति इत्याहुः ( त० दी० ) । अत्र शब्दस्य साधुत्वं
च शक्तत्वमेव । अपभ्रंशादितः ( गाव्यगगर्यादिशब्दतः ) शक्ति-
भ्रमाच्छान्दबोधः इति नैयायिकमीमांसकादय आहुः । वैयाकरणास्तु
यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुः । अपभ्रंशा-
नामपि शक्तत्वमस्त्येव इत्याहु: (वै० सा० शक्तिविचा० पृ० १५१ ) ।
अत्र शब्दस्यार्थ विशेषान्वयबोधने साधुत्वं च व्याकरणैक व्यक्तिका पुण्य-
जनकतावच्छेदकजातिः ( वै० सा० द० पृ० १०३ ) । शब्दो
द्रव्यम् इति भट्टमीमांसका आहुः । अत्रानुमानं प्रमाणम् शब्दो
द्रव्यम् साक्षादिन्द्रियसंबन्धवेद्यत्वात् घटवत् इति । श्रोत्रं द्रव्यग्राहकम्
निरवयवेन्द्रियत्वात् मनोवत् इति च । गुणवस्वाच शब्दो द्रब्यम् ।
संख्यादयोपि हि शब्दधर्मा अनुभूयन्ते ( न्या० ली० गु० १०
४९ ) । शाब्दिकास्तु शब्दमुभयस्वरूपमिच्छन्ति । तारत्वादयो गुणाः
शब्दनिष्ठास्तदाश्रयत्वाच्छन्दस्य द्रव्यत्वम् आकाशरूपद्रव्याश्रयत्वाद्रुणत्वं