2023-02-20 00:57:05 by ambuda-bot
This page has not been fully proofread.
म्यायकोशः ।
भागो निमित्तकारणम् ( त० कौ० ) ( बै० उ० २ । २ । २१ ) [ शब्द-
जशब्दविषये तु वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा ये द्वितीयादयः
शब्दाः ते शब्दजाः । तत्रोत्तरोत्तरशब्दे पूर्व पूर्वशब्दोसमवायिकारणम् ।
अनुकूलवातादिकं निमित्तकारणम् ( त० कौ०) इति । वर्णात्मकः शब्दो
द्रष्यम् इति मध्वमतानुयायिन आहुः (प्र० प्र० पृ० ११) । वर्णात्मकः
पुनर्द्विविध: सार्थकः निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः प्रकृतिः
प्रत्ययः निपातश्चेति ( श० प्र० श्लो० ६) । निरर्थकस्तु कचटतप
इत्यादिः । पुनरपि वर्णात्मको द्विविधः प्रमाणशब्द: अप्रमाणशब्दश्च ।
प्रमाणशब्द इत्यस्यार्थश्च शाब्दप्रमितिकरणज्ञानविषय : शब्द इति ( त०
प्र० प० ४ पृ० ६ ) ( त० कौ० ) ( प्र० प्र० ) । अयमर्थश्च
शाब्दबोधं प्रति पदज्ञानस्य करणतामते संगच्छते । मणिकृतस्तु प्रयो-
गहेतुभूतार्थतत्त्वज्ञानजन्मः शब्द इत्याहुः (त० प्र०प० ४ ५०५ ) ।
यथाश्रुतार्थस्य शाब्दप्रमितिकरणरूपस्याङ्गीकारे स चार्थः शाब्दबोधं प्रति
ज्ञायमानं पदं करणम् इति मते संगच्छते इति विज्ञेयम् । प्रमाणशब्दत्वं
च शाब्दप्रमितिकरणत्वम् ( न्या० म० ४ ) । इदं लक्षणं च ज्ञायमानं
पदं करप्पम् इति मताभिप्रायेणास्ति ( ( म० प्र० ४ ) । अथ वा
प्रकृतवाक्यार्थविषयक यथार्थशाब्दबोधविषयक तात्पर्यजन्यबाक्यत्वम्
( वाक्य० ४ ) । परे तु प्रमोपधायकशब्दत्वम् इति बदन्ति ( मू०
म० १ ) । तत्र प्रमाणशब्द आप्तोपदेशः । तदर्थश्च आप्तः यथा-
दृष्टस्यार्थस्य चियापयिषया प्रयुक्त उपदेष्टा । त्तस्य शब्द: ( वात्स्या ०
१।१।७ ) । अथ वा प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः ( चि०
४) । सोपि द्विविधः लौकिक: वैदिकश्च । तत्राद्यो लौकिक:
विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधिर्यथा पाकं कुर्यात्
इत्यादिः । निषेधश्च इदमनिष्टं न कुर्यात् इत्यादिः । अर्थवादस्तु अयं
ब्राह्मणः स्वमहिना सर्वे जगत्पवित्रं करोति इत्यादिः स्वयमूह्यः । नद्या-
स्तीरे पञ्च फलानि सन्ति इत्यादिरूपोवा ( प्र० प्र० ) द्वितीयस्तु
वैदिकः पवविधः विधिः मशः नामधेयम् निषेधः अर्थबादचेति । तत्र
।