This page has not been fully proofread.

न्यायकोशः ।
 
संयोगाद्वर्णोत्पत्तिः । अथ ध्वनिलक्षणोपि ( १ ) मेरीदण्डसंयोगाद्वेगा-
पेक्षाद्वेर्याकाशसंयोगादुत्पद्यते । ( २ ) वेणुपर्वविभागापेक्षाद्वेण्याकाश-
विभागाव । ( ३ ) शब्दाच शब्दनिष्पत्तिः । शब्दात्संयोगविभागनिष्प-
नाद्रीचीसंतानवच्छन्दसंतानः इत्येवं संतानेन श्रोत्रप्रदेशमागतस्यान्त्य-
शब्दस्य ग्रहणम् । श्रोत्रशब्दयोर्गमनागमनाभावात् ( संयोगग-
मनाभावात् ) अप्राप्तस्य चानुपलब्धेः परिशेषाःसंतानसिद्धि: ( प्र-
शस्त० गुणनि० १० ५५-५६ ) (बै० २/२/३१ ) । अत्र शा-
ब्दिका आहुः । वर्णात्मकश्च शब्दो वस्तुत एकोपि तत्तद्वर्ण संस्कारैः
प्रतिबिम्बिततत्तद्रूपोनन्तपदरूपतामिवापन्न इति सर्वपदरूपः सर्वार्थाभि-
धानशक्तिः । सा शक्तिर्योगिप्रत्यक्षगम्या नास्मज्ज्ञानगम्या
। यत्रैवं
व्यवहारादिना तज्ज्ञानं तस्यैवास्माकं बोधः इति मर्यादा ( ल० म०
आका० पृ० ४९ ) । अत्रेयं व्युत्पत्तिः । शब्दयतेनेनार्थ इत्यभिधीयते
ज्ञाप्यते इति ( वात्स्या० ११ १२ १३ ) । अत्र वैयाकरणा बाहुः । परा
पश्यन्ती मध्यमा वैखरी इति चत्वारि वाचः पदानि । एकैव नादात्मिका
वाङ्मूलाधारादुदिता सती परा इत्युच्यते । सैव हृदयाभिगामिनी
पश्यन्ती इत्युच्यते । सैव बुद्धिं गता विषक्षा प्राप्ता मध्यमा इत्युच्यते ।
अथ यदा सैव वक्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा
वैखरी इत्युच्यते । अत्र श्रुतिः गुहा त्रीणि निहिता नेजयन्ति तुरीयं
वाचो मनुष्या बदन्ति ( ऋ० १११६४ । ४५ ) इति । ध्वन्यात्मकवर्णा-
त्मकौ द्विविधावपि प्रत्येकं त्रिविधौ संयोगजौ विभागजौ शब्दजौ चेति ।
तत्राद्यौ मेर्यामभिहन्यमानायां मेरीदण्डसंयोगामुन्यात्मकः । वायुकण्ठ-
ताल्वादिसंयोगाद्वर्णात्मकश्च । द्वितीयौ वंशे पाठ्यमाने दलद्वयविभागात्
चटचटात्मको ध्वन्यात्मकः ओष्ठद्वयविभागाद्वर्णात्मकच । तृतीयो च
द्वितीयशब्दादिश्वरमशब्दान्तौ (बै० २१ २ ३१ ) । तत्र संयोगजे
ध्वन्यात्मके भेर्याकाशसंयोगोसमवायिकारणम् । मेरीदण्डसंयोगो ब्रिमि-
त्तकारणम् । समवायिकारणं तु सर्वत्रैवाकाशम् इति ज्ञेयम् । बिभागजे
ध्वन्यात्मके तु वंशदलद्व या काश विभागोसमवाधिकारणम् । वंशदलद्वयवि
 
-