This page has not been fully proofread.

न्यायकोशः ।
 
८६१
 
कराद्धान्तः । पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्या वेदान्ति-
नश्वाडुः । स्वतन्त्रास्तु भेर्या शब्दः मृदङ्गे शब्दः इति व्यवहारात्पृथिव्यामेव
शब्दमिच्छन्ति ( सि० च० १ पृ० १८) । शब्दो न स्पर्शषद्विशेष-
गुणः । प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् । अयावद्रव्यभावित्वात् ।
आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे
लिङ्गम् ( प्रशस्त० १० ७ ) (मु० ख० १) इति । शब्दोम्बरगुणः
श्रोत्रप्रायः क्षणिकः कार्यकारणोभयविरोधी संयोग विभागशब्दजः प्रदे-
शवृत्तिः समानासमानजातीयकारणकः ( प्रशस्त० गुणनि० ५० ५५ )
इति । कार्यकारणविरोधीत्यस्यार्थश्च कार्यमुत्तरशब्दः । कारणं संयोगवि-
भागशब्दाः । एतदुभयेनाप्ययं विरुद्ध्यते इति । [ ख ] श्रोत्रग्रायो
गुणः । [ग] येनोच्चारितेन सास्नालाझूलककुदखुरविषाणिनां संप्र-
त्ययो भवति स शब्दः । स च शब्दो द्विविधः बुद्धिहेतुकः अबुद्धिहेतु-
कश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकच द्विविधः स्वाभा-
विकः काल्पनिकश्च । उभयत्रापि ध्वनेरुपकारकत्वावन्यात्मकता । तत्र
स्वाभाविको वर्णविशेषान भिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधा-
रणः । काल्पनिकोपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च । तत्र
भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो
गीतिरूपः । ध्वनिविशेष सहकृत कण्ठतात्वाद्य भिघातजन्यश्च वर्णात्मकः
( शब्दार्थरने० ) ( वाच० ) । अन्यत्र चेत्थं विभाग उक्तः । शब्दो
द्विविधः ध्वन्यात्मकः वर्णात्मकश्च । तत्राद्यो मेरीमृदङ्गादौ प्रसिद्धः ।
द्वितीयः संस्कृतभाषादिरूपः शब्दः । अत्र भाष्यम् स च द्विविधः
वर्णलक्षणः अवर्णलक्षणश्च । तत्र अकारा दिर्वर्णलक्षणः । ध्वनिल-
क्षणश्चावर्णलक्षणः । अत्र पाठान्तरम् संख्यादिनिमित्तः अवर्ण-
लक्षणः इति ( प्रशस्त० गुण० पृ० ५५ ) । तत्र वर्णलक्षणस्योत्पत्तिः ।
आत्ममनसोः संयोगात्स्मृत्यपेक्षाद्वर्णोञ्चारणेच्छा । तदनन्तरम् प्रयत्नः ।
तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते । स च वायुरू
गच्छन् कण्ठादीनभिहन्ति । ततः स्थानवायुसंयोगा पेक्षात्स्था नाकाश-