This page has not been fully proofread.

व्यायकीचा ।
 
44
 
महो यथा स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशाळया इत्यादिमा नाफादि-
पदस्य खर्गे शक्तिप्रहः । गुणे चुकादयः पुंसि गुणिलिङ्गास्तु सद्धति
सुषीमः शिशिरो जडः चूर्णे क्षोदः इत्यादितश्च कोशाच्छतिग्रहः इति ।
( ४ ) आप्तवाक्यादपि शक्तिग्रहो यथा कोकिल: पिकपदाच्या इत्या-
द्यासवाक्यात् पिकादिपदानां कोकिले शक्तिग्रहः इति । ( ५ ) व्यवा
रादपि शक्तिग्रहो यथा घटं नय गामानय इत्याद्यावापोद्वापाभ्यां पार्श्व-
स्थबालस्य घटादिपदस्य घटमात्रे शक्तिग्रहो भवति इति । ( ६ ) बाक्य-
शेषादपि शक्तिमद्दो यथा यवमयश्चरुर्भवति इत्यत्र यवपदस्य दीर्घशकविशेषे
कनौ वा शक्तिः इति संदेहे वाक्यशेषाद्दीर्घशूक विशेषे शक्तिर्निर्णीयते । वा-
क्यशेषस्तु यत्रान्या ओषधयो ग्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति इति ।
वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाच तिष्ठन्ति यवाः
कणिशशालिनः ॥ (मु० ४ पृ० १७७) इति च । यथा वा स्वाराज्यकामो-
ग्निष्टोमेन यजेत इत्यादिविधिशेषीभूतेम्यः यन्न दुःखेन संभिक्षं न च प्रस्त-
मनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्व:पदास्पदम् ॥ इत्यादिवा-
क्येभ्यः स्वरादिपदस्य स्वर्गसुखादौ शक्तिप्रहः ( श० प्र० टी० ६०
२४) । (७) कचित् विवरणादपि शक्तिमहो यथा घटोस्ति इत्यस्य कल-
शोस्ति इत्यनेन विवरणाटपदस्य कलशे शक्तिग्रहः । यथा वा प्रति
इत्यस्य पाकं करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कम्यत
इति । कल्पनं तु आख्यातं यत्नत्वविशिष्टे शक्तम् यत्नत्वविशिष्टशक्क करोति-
प्रतिपादितार्थप्रतिपादकत्वात् इति ( दि० ४ पृ० १७७ ) । (८)
प्रसिद्धपदस्य सांनिध्यादपि शक्तिग्रहो यथा इह सहकारतरी मधुरं पिको
रौति इत्यादौ पिकपदस्य मधुरादिप्रसिद्धपदसांनिध्यात्कोकिले शक्तिब्रहः ।
यथा वा नीरूपः स्पर्शवान् वायुः निःस्पर्शे मूर्तिमन्मनः इत्यादौ
रूपशून्यस्पर्शवदादिषु वाय्यादिपदस्य शक्तिप्रहः । यथा वा सस्कृवालं-
कृतां कन्यां ददानः ककुदः स्मृतः इत्यादावुक्तरीत्या कन्यादानादिषु
ककुद्रादिपदस्य शक्तिग्रहः (मु० ४ पृ० १७७ ) ( स० प्र० को ०
२० टी० पू० २३-२४ ) इति । (१०) वेदान्तिनस्तु कुली-