This page has not been fully proofread.

न्यायकोशः ।
 
नशक्तिमत्त्वाचातुर्विध्यमेव रूढानाम् इति । यदुक्तं दण्ड्याचार्यैः ।
शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द
उक्तश्चतुर्विधः ॥ इति । तदेतच्छन्दशक्तिप्रकाशे खण्डितम् तदेतत्
जड मूकमूर्खादी नामन्यशून्यादीनां च शब्दानामपरिग्रहापस्या परित्यक्तम-
स्माभिः ( श० प्र० श्लो० १८ टी० पृ० १७ ) इति । अपोहार्थे
शक्तिरिति बौद्धा मन्यन्ते । अत्रेदं बोयम् । प्रथमतः शक्तिग्रहो व्यव
हारात् घटानयनादिरूपात् भवति । तथा हि घटमानय इति केनचित्
प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोर्थ प्रतीत्य घटमा-
मयति । तञ्चोषलभमानो बालस्तया क्रियया तस्य प्रयोज्यस्य प्रयत्नमनु-
मिनोति । तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरम्
अनुमिनोति । खप्रयत्ने तेन तथा निश्चयात् । ततस्तद्वेत्वाकाङ्क्षायाम्
उपस्थितत्वाच्छन्दमेव कल्पयति । तदनन्तरम् घटादिषदानां प्रत्येक-
भाषाघोद्धापाभ्यां घटपदं घटघीजनकम् इति कल्पयति । कृते च
तस्मिन् अतिप्रसङ्गभङ्गाय तज्जननानुकूलसंकेतरूपं संबन्धं कल्पयति ।
जत्रातिप्रसङ्गस्तु घटपदं घटघीजनकमिव पटधीजनकमपि स्यात् इति
भगृहीतशक्तिकानामपि घटबोध: स्यात् इति वा बोध्यः । तत आद्य-
शक्तिग्रहानन्तरम् उपमानादिभिः शक्तिग्रहो भवति ( न्या० म० ४
१० ५ ) । अत्रोक्तमभियुक्तैः । शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्या-
व्यवहारतश्च । बाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य
बृद्धाः ॥ (मु० ४ ) ( त० प्र० ४ पृ० ७३ ) इति । तत्र ( १ )
व्याकरणाच्छक्तिग्रहो यथा कर्मणि द्वितीया कर्तरि परस्मैपदम् इत्यनु-
शासनात्कर्मत्वादी द्वितीयादेः शक्तिग्रहः । धातुप्रकृतिप्रत्ययादीनां
शक्तिब्रहो व्याकरणाद्भवति इति । ( २ ) उपमानाच्छक्तिग्रहो यथा
गवादिपदशक्ति घीसाचिव्येम गोसादृश्यातिदेश वाक्यागवयपदवाच्यत्वबो-
घोत्तरं गषयत्व जात्यबच्छिन्ने गोसादृश्यप्रहात् गबयो गवयपदवाच्यः
इत्याकारः । गोसदृशो गवयपदबाच्यः इति सादृश्यज्ञानाद्गषयपदस्य
गवये शक्तिग्रहो भवति इति था । कचित्तु ( ३ ) कोशादपि शक्ति-