This page has not been fully proofread.

न्यायकोचः ।
 
३९
 
इत्यादी धात्वर्थः । अत्र पञ्चम्पर्थः कर्तृत्वनिरूपकत्वम् । तस्य अन्तर्धिघ-
टकदर्शनेन्वयः । एवं च उपाध्यायकर्तृकदर्शन विषयतायाः यः स्वनिष्ठः
अभावस्तदुद्देश्यकव्यापारकर्ता छात्र इत्यन्वयबोध: (ग० व्यु० ५) ।
छात्रो हि मामुपाभ्यायो न पश्यतु इतीच्छया दर्शनाभावप्रयोजकं व्यापारं
करोतीति फलितार्थः । अथवा अत्र - पञ्चम्या वृत्तित्वमर्थः । तस्य भात्व-
र्थतावच्छेद के प्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । तथा च उपा-
घ्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकतिमान्छिष्यः इति
वाक्यार्थ: ( का० व्या० पृ० १० ११ ) ।
 
-
 
अन्तर्यामी – सकलजीवनियामकः । य आत्मनि तिष्ठनात्मानमन्तरो यमयति
इति श्रुतिः ।
 
-
 
अन्तिकत्वम् - दैशिकमपरत्वम् ( मु० ९३ ) । यथा दूरान्तिकादिधीहे-
तुरेका नित्या दिगुच्यते ( मा०प०४७ ) इत्यादौ । तद्धि प्रयागस्य
जनस्थानमपेक्ष्य वाराणस्यन्तिकस्वम् ।
 
अन्त्यः -- १ भवसाने वर्तमानः । यथा विशेष : (मु० १।३७ ) । इद-
मत्राकूतम् । परमाण्वा दिनित्यपदार्थव्या वर्तकत्वेन परमाण्यादी विशेषाख्यः
पदार्थ: सिद्धान्ते स्वीकृतोस्ति । तथा च तत्तद्विशेषव्यावृत्यर्थमपि विशेषा.
न्तरस्वीकारेनवस्था स्यात् । अतः परमाण्णादिवृत्तितत्तद्विशेषः स्वस्य स्वय-
मेव व्यावर्तकः । तदपेक्षया विशेषान्तरं नास्तीति विशेषोन्त्यो भवतीति ।
२ पूर्वस्मिन्सति यस्मात्परो नास्ति सोन्त्य इति शाब्दिका वदन्ति ।
अन्त्यावयवित्वम् [ क ] द्रव्यानारम्भक द्रव्यत्वम् ( दि० १/७१) ।
[ख ] द्रव्यानारम्भकत्वे सति कार्यद्रव्यत्वम् ( त० कौ० ३ ) ।
[ग] अषयषजन्यत्वे सत्यषयव्यजनकत्त्रम् ( सि० च० ६ ) । यथा
घटादेरन्त्यावयवित्वम् । इदमत्राकृतम् । परमाण्वादिकपालपर्यन्ता अवयवा
द्रव्यान्तरमारभन्ते । घटस्तु न किंचिद्रव्यान्तरमुत्पादयितुं क्षमत इति
घटस्यान्त्यावयवित्वमिति ।
 
po
 
न्यतमम् - [ क ] तत्तदवृत्तिशून्यम् ( ग० कूट० ) । [ख] भेदकू-
टावच्छिनप्रतियोगिताक मेदवत् । यथा घटो घटपटस्तम्भान्यतमो भवति ।