2023-02-20 00:57:02 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
●
प्रामाण्यम् इति मीमांसकसिद्धान्तः । जाती व्यक्तौ चोभयत्र शक्तिः ।
किं तु जात्यंशे ज्ञाता व्यक्तयंशे स्वरूपसती प्रत्यायिका इत्यन्ये मीमांसका
आहुः । अनाडुः गुरुमततस्ववे दिनः । विशिष्टगोचरा एकैव शक्तिः ।
किं तु जातिनिष्ठतया सा शक्तिः ज्ञातोपयुज्यते । व्यक्तौ सा स्वरूपसती ।
समानवित्तिवेद्यतया च व्यक्तेरपि भानम् इति ( न्या० सि० दी०
पृ० १२ ) । अत्र व्यक्तेरन्वयप्रकारतया भानम् इति गुरुमतैकदेशिन
आहुः । समासस्य विशिष्टार्थे शक्तिः इति शाब्दिका आहुः । तन्न ।
तत्रावयवलक्षणयैवोपपत्तौ समुदायशक्तौ मानाभावः इति नैयायिकाः
प्रादुः । मीमांसकास्तु समुदाये ( वाक्ये ) लक्षणा । स्वबोध्यसंबन्धस्यैव
लक्षणापदार्थत्वादित्याहुः ( न्या० म० ख० ४ पृ० ११-१२) ।
गोपदस्य गोस्वे शक्तिः व्यक्तौ लक्षणा इति मण्डनमिश्राः स्वीचक्रुः ।
धातोश्च फलावच्छिन्नव्यापारे शक्तिः इति नव्यनैयायिकाः प्राहुः । फले
व्यापारे च पृथक् शक्तिः इति शाब्दिका आहुः । तदुक्तम् व्यापारो मा-
वना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न हि यत्नोर्थ इष्यते ॥
(वै० सा० कारि० ५ पृ० २५) इति । फल एव शक्तिः इति मीमांस-
कविशेषाः मण्डनादयः आहुः । व्यापारे शक्तिः इति रनकोशकृतः प्राची -
नतार्किका: आहुः । तथा च क्रियामात्रं ( न तु फलावच्छिन्नम् )
धात्वर्थः इति प्राथां नैयायिकानामाशयः ( ग० व्यु० का० २) ।
आख्यातस्य तु कृतौ शक्तिः इति नैयायिकाः प्राहुः । लः कर्मणि च
( पाणि० सू० ३/४/६९ ) इति सूत्रात् कर्तरि कर्मणि भावे च शक्तिः
इति शाब्दिका आहुः । व्यापारमात्रे शक्तिरिति मीमांसका आडुः । उत्पा-
दकतायां शक्तिरिति रत्नकोशकृत आहुः । आलंकारिकास्तु जाति-
गुणक्रियासंज्ञार्थेषु चतुर्विधा शक्तिरित्याहुः । आलंकारिकमतं दर्शितं
यथा जातिद्रव्यगुणस्पन्दैर्धः संकेतवत्तया । जातिशब्दादिमेदेन चातु-
विध्यं परे जगुः ॥ ( श० प्र० श्लो० १८) इति । तदर्थश्च गोगव-
यादीनां गोत्वादिजात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशुना-
दीनां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अबच्छि-
१०८ न्या० को●
-