2023-02-20 00:57:02 by ambuda-bot
This page has not been fully proofread.
1
न्यायकोशः ।
वाच्यम् इत्याहुः (प्र० च० ४ पृ० ३८) । जाव्याकृतिव्यक्तिषु
तिसृषु शक्तित्रयम् इति शाब्दिका मन्यन्ते । आकृतावेव शक्तिः इति
पतञ्जलिप्रभृतय आहुः । जातावेष शक्तिर्व्यक्तिलाभस्त्वाक्षेपात् इति
: तौतातिता ( तुतातभट्टानुयायिनः ) प्राभाकराः कुमारिलभट्टादयश्चाद्दुः ।
अयं भावः । गोत्वं हि स्वाश्रयं विना अनुपपन्नम् इति स्वाश्रयम् आक्षि-
पति इति । अत्र अर्थापत्तिराक्षेपः इति भट्टमतम् । समानवित्तिवेद्यत्व-
माक्षेपः इति प्राभाकरमतम् इति विज्ञेयम् ( न्या० म० ४ पृ० ६) ।
अत्र व्यक्तेः प्राधान्यानुभवाल्लक्षणा व्यक्तौ । आक्षेपे तूपसर्जनता स्यात्
इति भट्टैकदेशिन आहुः । अत्रोक्तं भट्टपादै: आनन्त्यव्यभिचाराम्यां
शक्त्यनेकत्वदोषतः । न व्यक्तावाकृतौ तु स्यात्सर्वमेतत्समञ्जसम् ॥ अन्व-
यव्यतिरेकाम्यामेकरूपप्रतीतितः । आकृतेः प्रथमं ज्ञाने तस्या एवा-
भिघेयता । व्यक्त्याकृत्योरभेदाच्च व्यवहारोपयोगिता । लिङ्गसंख्यादि-
संबन्ध: सामानाधिकरण्यधीः ॥ सर्वोपपन्ना च यतस्तस्मात्तत्रैव कल्पयेत्
(जै० सू० १० अ० १ पा० ३ सू० ३५) इति । पदानामन्वयवि
शिष्टे शक्तिः इत्यप्याहुः । अयं भावः । जातौ अन्विते ( अन्वयविशिष्टे
वाक्यार्थे ) चामिधारूपा शक्तिः इति । तत्र प्राभाकरास्तु सिद्धार्थस्या-
नुभाषकत्वं नास्ति इति कार्यत्वान्वितव्यक्तौ ( इतरान्विते ) शक्तिः
इत्याहुः (त० दी० पृ० ३२) । अत्रोपहसितं श्रीहर्षमिश्रैः गुरुर्षि-
यमभावस्य स्थाने स्थानेभिषिक्तवान् । प्रसिद्ध एव लोकेस्मिन् बुद्धबन्धुः
प्रभाकरः ॥ इति । न्यायसिद्धान्तमञ्जरीकारः स्वयमप्युपजहास प्रता-
रको वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकरः इति गृहीतो लोकैः इति
युक्तमुत्पश्यामः इति ( न्या० म० ४ पृ० ९ ) । अत्रायमर्थः प्रतारकः
इत्यत्र रेफककारयोर्व्यत्यासः । तकारलिप्यां भकारसादृश्यम् । तेन प्रभा-
करः इति लोके प्रसिद्धः ( म० प्र० ४ पृ० ४० ) इति । अर्थवाद-
वाक्यानां कार्यतावाचकलिङघटितत्वेन कार्यत्वाद्यबोधकत्वाच्छान्दानु-
भवजनकत्वाभावेनाप्रामाण्यमेव इति तन्मतम् ( न्या० म० ४ ) ( त०
प्र० ४ पृ० २९) ( चि०४ ) । विध्येकवाक्यतया अर्थवस्थात्