2023-02-20 00:57:02 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
[ङ ] पदपदार्थयोर्वाध्यवाचकभावनियामकं संबन्धान्तरं शतिः
शाब्दिका वदन्ति ( बै० सा० ५० ) ( ल० म० ) । [च ] अवि-
नाभाव एव शक्तिः इति प्राचः भङ्गीचक्रुः ( त० प्र० ख० ४
पृ० ३७ ) । न्यायमते शक्तिस्त्रिविधा योगः रूढि: योगरूढिवेति ।
तत्राद्या पाचकादिपदेषु । द्वितीया घटादिपदेषु । तृतीया पङ्कजादिपदेश
( त० दी० ) । अत्र यौगिकरूढिस्तुरीयापि शक्तिरस्ति इति केचिद्व-
दन्ति । माध्ववेदान्तिनस्तु महायोगाख्यामपि वृत्तिमङ्गीचक्रुः (प्र० च०
पृ० ३९ ) । प्राभाकरास्त्वेवं पदशक्तिं विभजन्ते । पदशक्तिर्द्विविधा
आनुभाविका स्मारिका च आनुभाविका शाब्दानुभवजनिकेत्यर्थः ।
स्मारिका पदार्थस्मृतिज निकेत्यर्थः ( त० प्र० ४ पृ० २८) । तंत्राचा
कार्यान्विते । पदात्कार्यान्वितस्यैवानुभवात् । द्वितीया तु जातौ
( न्या० म० ४ पृ० ७-८) ( दि० ४ ) ( प्र० च० ३९) ।
पदाज्जात्युपस्थितेरेवानुभूयमानत्वात् इति भावः ( म० प्र० ४ ४०
४० ) । अथ तत्तन्मते तत्तदर्थेषु पदानां शक्तेर्दिगिदानीं प्रदर्श्यते । गवा-
दिपदानां जात्याकृतिविशिष्टव्यक्तौ शक्तिः इति संप्रदायविदो नैयायिकाः
प्राहुः । जातौ व्यक्तौ वैशिष्ट्ये च एका शक्तिः इत्यर्थः ( त० प्र० ख०
४ पृ० २५ ) । आकाशपदे तु निरवच्छिन्नैव शक्तिः । व्यक्तीनामा-
नन्त्याभावेनानुगमकधर्मानपेक्षणात् ( त० प्र० ४ पृ० ३२ ) इति ।
व्यक्तावेव शक्तिः न तु गोत्वादिजातावपि इति नव्या आहुः । जातिवि-
शिष्टव्यक्तौ शक्तिः इत्यपरे अङ्गीचक्रुः । अत्र जातिशब्दः शब्दप्रवृत्तिनि-
मित्तपरः । तथा च आकाशादयः सर्वेपि शब्दाः प्रवृत्तिनिमित्त विशि-
ष्टवस्तुवाचिनो भवन्ति इत्याशयः । घटशब्दो घटघटत्वयोः शक्तः । शुद्ध-
शब्दो गुणगुणिनोः शक्तः । गतशब्दः क्रियातदाश्रययोः शक्तः । दण्डि-
शब्दो दण्डदेवदत्तयोः शक्तः इत्यन्ये आहुः । वेदान्तिनस्तु गवादि-
पदानां विशेष्यतया व्यक्तय एव वाच्याः । आनयनादिकं तु विशेषण-
स्वादिना वाच्यम् इत्याहुः । एके तु गवादिशब्देषु जाति: देवदत्तादिसं-
ज्ञाशब्देषु व्यक्तिः सास्नादिमच्छन्देषु आकृतिः इत्येवं त्रितयमपि