This page has not been fully proofread.

न्यायकोशः ।
 

 
एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति रीत्या पदार्थस्मारिका तथा
चायमर्थः । येन रूपेण चोपस्थितयोः पदपदार्थयोः संबन्धज्ञानम् तद्रू-
पावच्छिन्नज्ञानात्संबन्धांश उद्बुद्धसंस्कारसहकृतात्तद्रूपावच्छिनस्मरणम् ।
यथा हस्तिहस्तिपकयोः पाल्यपालकमावसंबन्धज्ञानेन हस्तिज्ञानाद्धस्तिप-
कस्मरणम् ( त० प्र० ख० ४ पृ० ३३ ) । तथा च शक्तिप्रहः शाब्द-
बोधजनिकायां पदजन्यपदार्थोपस्थिती सहकारी भवति ( न्या० म०
४ ) इति । पदपदार्थयोः संबन्धश्च [ क ] इदं पदममुमर्थ बोधयतु
इत्याकारक ईश्वरसंकेतः (मु० ४ ) ( न्या० म० ४ ० ३)
पृ०
( स० सं० ) । तदर्थश्च एतपदजन्यबोध विषयोयमर्थः इत्याकार-
केश्वरेच्छा शक्तिः (नील० ) इति । एतत्पदजन्यत्व प्रकारता निरूपि-
तैतदर्थबोधविशेष्यताशालीच्छा इति वा ( त० प्र० ख० ४ पृ०
१४ ) ( ग० शक्ति ० ) । अत्र ईश्वरसंकेतो नामेश्वरेच्छा ( न्या० बो०
४ पृ० १९ ) । ईश्वरसंकेत इत्यस्यायं भावः । द्वादशेहने पिता नाम
कुर्यात् इति श्रुतिः । तथा च द्वादशाहः कालीन पित्राद्युच्चारित नामत्वा दिना
नामवाच्यः शिशुः इत्याकारकेच्छयेश्वरेण तादृशश्रुतिप्रणयनादाधुनिक-
संकेतितचैत्रादिशब्देषु ईश्वरसंकेतोस्त्येव (त० प्र० ४ पृ० १५ ) इति ।
[ख] अस्माच्छन्दादयमर्थो बोद्धव्यः इत्यना दिसंकेत : ( त० कौ० ) ।
यथा घटाद्यर्थविशेष्यकघटा दिपदजन्यबोध विषयत्वप्रकारक ईश्वरसंकेतः
( न्या० बो० ४ पृ० १९) । [ग] इच्छामात्रं शक्तिः इति नव्या
आहुः (मु० ४ ) ( वात्स्या० २१११५४ ) । तथा च ईश्वरसंकेत एव
न शक्तिः । किं त्वभियुक्तसंकेतमात्रं शक्तिः इति ( म० प्र० ४ १०
३८ ) । आधुनिके तु संकेतिते न शक्तिः इति संप्रदाय: । नव्यास्तु
ईश्वरेच्छैव न शक्तिः । किं तु इच्छैव । तेन आधुनिक संकेतितेपि सास्ति
इति वदन्ति (मु० ४ ) । [घ ] मीमांसकास्तु अभिधा नाम पदा-
र्थान्तरं संकेतप्रायम् शक्तिः इत्याहुः (न्या० म० ३ ) ( त० दी० )
( ग० शक्ति ० ) । संकेतग्रहजन्य ग्रहविषयः इत्यर्थः । मीमांसकमते इयं
शब्दसहकारिग्रह विषयः इति ज्ञेयम् ( त० प्र० ४ १० १४) ।