2023-02-20 00:57:01 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
गध्वंसस्य संयोगसमानकालीनास्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंस-
र्गाभावसहितस्य शुद्धिपदार्थत्वात् । अभिमन्त्रितपयःपछुवादावपि
समयविशेषावच्छिन्नाभिमन्नणध्वंस एव व्यथाद्यपनायकः । तत्तन्मन्द्रदेव-
तासंनिधिरेव वा । कलमबीजादीनामापरमाण्वन्तभङ्गे तत्र चाबान्तरजा-
त्यभावे नियतकलमजातीयादिसिद्धिरपि परमाणुपाकजविशेषादेव । कार्य-
वृत्तिरूपादिसजातीयस्य पूर्वरूपादिविजातीयस्य परमाणौ पाकजरूपादेरु-
भयसिद्धत्वात् । यथा हि कलमबीजं यवादिजात्या व्यावर्त्यते तथा
तत्परमाणवोपि पाकजैरेव इत्याद्यूहनीयमित्यलं विस्तरेण ( चि० २
परिशि० शक्ति० पृ० ३८ ) । २ पौराणिकास्तु स्त्रीदेवता शक्तिः ।
यथा वैष्णवी ब्राह्मी गौरी च इत्याहुः । अत्रोक्तम् इच्छा क्रिया तथा
ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योति-
रोमिति ॥ ( गोरक्षसं० ) ( वराहपु० ) इति । ३ तात्रिकास्तु पीठाधि-
ष्ठातृदेवताविशेषः इत्याहुः । ४ नीतिशास्त्रज्ञास्तु राज्ञः प्रभावोत्साह-
मन्त्रजातं सामर्थ्यरूपं शक्तित्रयम् इत्याहुः । ५ वृत्तिविशेषः । अर्थस्मृ
त्यनुकूल: पदपदार्थसंबन्धः । स च पदशक्तिसमय संगतिसंकेतवाचक-
स्वादिभिर्व्यवह्वियते ( म०प० पृ० ३९) । अत्र वैयाकरणा आलं-
कारिकाचाहुः । सैषा शक्तिः संयोगादिभिर्नानार्थक शब्देषु नियम्यते
इति । तदुक्तं हरिणा संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः
प्रकरणं लिङ्गं शब्दस्यान्यस्य सैनिधिः ॥ सामर्थ्यमौचिती देश: कालो
व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ।
तदर्थश्च एते संयोगादयः शब्दार्थस्यानवच्छेदे संदेहे तदपाकरणद्वारेण
विशेषस्मृतिहेतवो निर्णयहेतवः इति । उपस्थिताना मनेकेषामेकतरमात्रा-
र्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोषजनकाः इति भावः
( ल० म० पृ० १२ ) । नैयायिकास्तु प्रकरणादीनामिव संयोगादीना-
मपि तात्पर्यग्राहकत्वमेव । यथा सशङ्खचको हरिः इत्यादौ शङ्खशका-
दिविशेषणम् इत्याहुः । अत्रेदं विज्ञेयम् । शक्तिमहः शाब्दबोधे जननीये
पदजन्यपदार्थोपस्थितौ (स्मृतौ ) उपयुज्यते । अयं भावः । शक्तिर्हि
€43