This page has not been fully proofread.

८५२
 
न्यायकोशः ।
 
विशेषाः प्राभाकरास्तु शक्तिः पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः
(नील० पृ० ४६) (दि० १ पृ० २२ ) । अत्रैवं शक्तिं साधयन्ति
प्राभाकराः । ईश्वरवत्कार्येणैव शक्तिरप्यनुमीयते । तथा चानुमानम्
बहिर्दाहानुकूलाद्विष्टातीन्द्रियधर्मसमवायी दाहरूपकार्यजनकत्वादात्मवत्
इति ( १० मा०) । अयं भावः । यादृशादेव करानलसंयोगादाहो जायते
तादृशादेव सति प्रतिबन्धके न जायते । अतः यदभावात्कार्याभावः
तद्वह्रथादावभ्युपेयम् । तेन विना तदभावात् । तथा च व्यतिरेक-
मुखेन शक्तिसिद्धिः इति ( चि०२ परिशि० पृ० २४ ) । अत्र वदन्ति ।
इयं शक्तिर्न द्रव्यात्मिका । गुणादिवृत्तित्वात् । अत एव न गुणात्मिका
कर्मात्मिका वा । न च सामान्याद्यन्यतमरूपा । उत्पत्तिमत्वे सति विना-
शित्वात् इति शक्तिपक्ष: ( दि० १११ पृ० २३ ) । अत्र संग्रहश्लोकः
न द्रव्यं गुणवृत्तित्वाद्गुणकर्मबहिष्कृता । सामान्यादिषु सत्त्वेन सिद्धा
भावान्तरं हि सा ॥ इति । एवम् ज्ञातता वैशिष्ट्यं सादृश्यं च पदार्था-
न्तरमूह्यम् ( न्या० ली० पृ० २ ) । नैयायिकास्तन सहन्ते । तथा हि
तृणारणिमणिफूत्कारा दिव्यक्तीना मानन्त्येन प्रतिव्यक्ति भावहेतुजानन्तश-
क्तिस्वीकारे गौरवम् । तावदनन्तव्यक्तिजन्यावान्तरवहिव्यक्तिषु विशेष-
जातिकल्पने लाघवम् इति तदेव कल्प्यते ( चि० २ परिशिष्ट ईश्वर-
वादः पृ० ३३-३४ ) ( नी० ल० पृ० ४६ ) इति सहजशक्ति-
निरासः । एवम् मीमांसकाभिमता वीह्यादिषु प्रोक्षणादिसंस्कारजन्या-
धेयशक्तिरपि निरस्ता वेदितव्या । पादाहतो युवतिभिर्विकसत्यशोकः
शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबको विकसत्य-
जत्रमालोकितस्तिलक उत्कलिको विभाति ॥ इत्युक्तरीत्या कामिनीचर -
णाभिषातदोहदादिभिः अशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिः । सम-
यविशेषावच्छिन्नचरणदोहदादिसंयोगध्वंसस्यैव कारणस्वात् । अथ वा
चरणाभिघाताकृष्टभागान्तजनितवृक्षादेव तदुपपत्तिः । कालान्तरे पुष्पा-
युत्कर्षात् । दुःखावयवोपचयावश्यंभावेन वृक्षभेदावश्यकत्वात् । नापि
ताम्रकांस्यादावम्लभस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः । तत्संयो-