This page has not been fully proofread.

न्यायकोश: ।
 
अपेक्षाबुद्धिजन्यत्वं वा । यथा द्विश्वत्रित्वादीनां व्यासज्यवृतित्वम् ( ग०
व्यु० का० १) ।
 
-
 

 
व्युत्पत्तिः - १ विशेषेणोत्पत्तिः । २ शास्त्रजन्यः शब्दार्थज्ञानादिसंपायः
संस्कार विशेषः । ३ शब्दानामर्थबोधकशक्तिः । ४ यां बुद्धिमा-
साद्य पदार्थविशेषबोध: सा ( चि० २ पृ० १६) । ५ शब्दश-
क्तिग्रह: ( नील० ४ पृ० २९) । यथा व्युत्पित्सुर्बालो गोपदस्य गोव-
विशिष्टे शक्तिः अश्वपदस्याश्वत्वविशिष्टे शक्तिः इति व्युत्पद्यते ( त०
दी० ४ ) इत्यादौ व्युत्पत्तिः । ६ विग्रहवाक्यम् । यथा पदस्यार्थः
पदार्थः इति व्युत्पत्तिः ( त० दी० १ ) इत्यादौ व्युत्पत्तिशब्दस्यार्थः ।
७ व्यवहारः । यथा लोकव्युत्पत्तिरित्यत्र व्युत्पत्तिशब्दस्यार्थः (नील० )।
८ नियमः । यथा पदार्थः पदार्थेनैवान्वेति न तु पदार्थतावच्छेदकेन
इति व्युत्पत्तिः इत्यादौ व्युत्पत्तिशब्दस्यार्थः । यथा वा नव्यमते यत्र
समभिव्याहृतपदार्थतावच्छेद कफलाश्रयत्वबोधः तत्र द्वितीया इति व्युत्पत्तिः
इत्यादौ व्युत्पत्तिशब्दस्यार्थः ( त० प्र० ४ पृ० ८४ ) ।
व्युद्धृत्यसादनम् – कपालेभ्यः पुरोडाशं पृथकृत्यान्तर्वेद्यवस्थापनम् ( जै०
न्या० अ० १० पा० १ अधि० ११) ।
 

 
-
 

 
निःश्वासादिः (गौ० वृ० ३ । १ । ३१) । यथा मतान्तरे मानुषा-
दिशरीरपरीक्षणे गन्धक्केदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ( गौ०
३।१।३१ ) इत्यत्र व्यूहशब्दस्यार्थः । २ प्रतिहतस्य परावर्तनम् ( गौ०
वृ० ४।२।२० ) । यथा अव्यूहाविष्टम्भविभुवान्याकाशधर्माः ( गौ०
४ । २ । २०) इत्यत्र व्यूहशब्दस्यार्थः । ३ वासुदेवसंकर्षण प्रद्युम्ना निरुद्धसं-
ज्ञकश्चतुर्विधो व्यूहः इति रामानुजीया वदन्ति ( सर्व० पृ० ११७
रामा० ) । ४ समूहः इति काव्यज्ञा आहुः । ५ निर्माणम् । ६ सम्यक
तर्कः । ७ देहः । ८ सैन्यम् । ९ नीतिशास्त्रज्ञास्तु युद्धार्थ सैन्यनिवेश-
विशेष इत्यादुः । अत्रोक्तम् । व्यूहमेदाश्च चत्वारो दण्डो भोगस्तु मण्ड-
लम् । असंहृतश्च निर्णीता नीतिसारादिसंमताः ॥ अन्येपि प्रकृतिव्यूहाः
 
-