This page has not been fully proofread.

न्यायकोशः ।
 
८४९
 
३ प्रयोजनम् । यथा एतद्विशेषणदानस्य व्यावृत्तिः कथ्यते इत्यादौ
ब्यावृत्तिशब्दस्यार्थः प्रयोजनम् ।
 
व्यास:
 

 
-१ विस्तारः ( अमरः ३।२।२२ ) । यथा समासव्यासयोगतः
इत्यादौ ( प्र० च० परि० २ पृ० ५४ ) । २ वैयाकरणास्तु [ क ]
समासादिसमानार्थकं विप्रहवाक्यम् । यथा राजपुरुष इत्यत्र राज्ञः पुरुषः
इति व्यासवाक्यम् इत्यादौ व्यासशब्दस्यार्थः । [ ख ] पदानां समासा-
भावः इत्यप्याहुः । ३ सत्यवत्यां पराशराज्जातः श्रीनारायणस्य सप्तदशो-
वतारविशेषः ( ब्रह्मवै० पु० अ० ४ ) । यथा व्यासो नारायणः
साक्षात् इत्यादौ व्यासशब्दस्यार्थः । स च उत्सन्नशाखं प्रनष्टं च वेदं
संकलितवान् अष्टादश पुराणानां ब्रह्मसूत्राणां च कर्ता इति विज्ञेयम् ।
तदुक्तम् अष्टादशपुराणानां कर्ता सत्यवतीसुतः इति । भागवते चोक्तम्
ततः सप्तदशे जातः सत्यवत्य पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा
पुंसोल्पमेधसः ॥ ( भाग ० १।३।२१) इति । ४ ततोन्यो मुनिविशेषः ।
तत्रोक्तम् प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकमीष्मदा-
लम्यान् । रुक्माङ्गदार्जुनवशिष्ठ विभीषणादीन् पुण्यानिमान्परमभागवतान्
स्मरामि ॥ इति । ५ मानविशेषः (परिमाणम्) ( शब्द० २० ) । ६
लीलावतीकारस्तु वृत्तक्षेत्रस्य मध्यस्थरेखा । यथा व्यासे भनन्दाग्निहते
इत्यादौ इत्याह । ७ पौराणिकास्तु पुराणपाठको विप्र इत्याहुः । तदुक्तम्
य एवं वाचयेद्विप्रः स ब्रह्मन् व्यास उच्यते इति ।
 
-
 
व्यासङ्गः – [ क ] कार्यान्तरत्यागेनैकपरत्वम् । [ ख ] मनसो विषयान्त-
रानासक्तिः । [ ग ] इन्द्रियाणां स्वस्वविषयसंबन्धे सति यत्किचिदि-
न्द्रियजन्यज्ञाने सत्यपीन्द्रियान्तरजन्यज्ञानाभाव इति केचिद्वदन्ति ।
 
व्यासज्यवृत्तित्वम् – १
 
O
 
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकस्वम्
(ग० २ चतु० मिश्र ) । समानाधिकरण मेद प्रतियोगिता बच्छेदकत्व
तादात्म्य एतदुभयसंबन्धेन यत्किंचित्पदार्थविशिष्टत्वम् इत्यर्थः । यथा
व्यासज्यवृत्तित्वम् । २ अपेक्षाबुद्धिविशेषविषयत्वम्
 
उभयत्वस्य
 
१०७ न्या• को●