2023-02-20 00:57:00 by ambuda-bot
This page has not been fully proofread.
न्यायकोश ।
नरेषु
व्यावृत्तत्वम्-१ अवृतित्वम् । यथा यस्तूभयस्माद्यावृत्तः स स्वसाधारणो
• मतः ( भा०प० लो० ७४ ) इत्यादौ सपक्षविपक्षव्यावृत्तो हेतुरसा-
'. धारण: इत्यादौ च व्यावृत्तत्वमवृत्तित्वम् । २ विरोधः । यथा अनु-
वृत्तत्वव्यावृत्तत्वाम्यां वह्नितदभावोपस्थापकस्य धूमस्य ( दीधि ० ) इत्यादौ
व्या वृत्तत्वशब्दस्यार्थो विरोध: ( ग० सव्य० १० ९) । ३ कचित्
अन्योन्याभाव प्रतियोगित्वम् । यथा नराणां क्षत्रियः शूरः
वा इत्यत्र निर्धारणविभक्त्यर्थो व्यावृत्तत्वम् । इदं च अभेदान्वयिविधेय-
सममिव्याहारस्थले विज्ञेयम् (ग० व्यु० का० ६ पृ० ११४ ) । अत्र
विशेषस्तु निर्धारणशब्दव्याख्याने दृश्यः १ ४ अत्यन्ताभावप्रति-
योगित्वम् । यथा नराणां क्षत्रिये शौर्यम् नरेषु वा इत्यत्र निर्धा-
रणविभक्त्यर्थो व्यावृत्तत्वम् । इदं तु भेदान्वयि विधेयसमभिव्याहा-
रस्थले विज्ञेयम् (ग० व्यु० का० ६ पृ० ११४) । ५ इतरमेदा-
नुमितिविशेष्यत्वम् । यथा गौरितरेभ्यो व्यावृत्ता इत्यादौ गोर्व्यावृत्तत्वम् ।
यथा वा स तु विशेष: स्वत एव व्यावृत्तः (मु० १ पृ० ३६ – ३७)
इत्यादौ विशेषपदार्थस्य व्यावृत्तत्वम् । ६ काव्यज्ञास्तु निवृत्तत्बम् ( कुमा०
टी० ) । यथा व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ( कुमार० स०
२ श्लो० ३५) इत्यादौ इत्याहुः । ७ कृतवरणत्वम् इति याज्ञिका
आहुः ( अमरः ३।१।९२ ) ।
-
-
०
व्यावृत्तिः - १ [ क ] तत्तद्धर्मावच्छिन्नेतरमेदः ( नील० पृ० ५ ) ।
यथा व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिः ( त०
दी० ) इत्यादौ व्यावृत्तिशब्दस्यार्थः । [ ख ] इतरमेदानुमितिः । यथा
व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इयत्र व्यावृत्तिशब्दस्यार्थः
पृथिवीतरेभ्यो भिद्यते इत्यनुमितिः । तथा हि गन्धाभाव इतरत्वव्यापकत्व-
ग्रहे सति गन्धवती पृथिवी इति पक्षधर्मताग्रहे पृथिवीतरेभ्यो मिद्यते
इत्यनुमितिरुत्पद्यते सैव व्यावृत्तिः (वाक्य० पृ० २) । २ अत्यन्ताभावः ।
यथा यथावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः
(चि० २ पृ० २८) इत्यादौ व्यावृत्तिशब्दस्यार्थोत्यन्ताभावः ।