This page has not been fully proofread.

न्यायकोशः ।
 
-
 
शब्द: अनित्यः शब्दत्वादित्यादौ । ( अयमसाधारणो हेतुः ) ( त० ब०
२१३१४९ ) ( बै० उ० ३११११५ ) । साध्यसंशयहेतुरनैकान्तिकः ।
स द्विविधः । साधारण: असाधारण: ( त० भा० ४८ ) । प्रकारान्तरे-
णानैकान्तिकस्त्रिविधः साधारण: असाधारणः अनुपसंहारी ( गौ० वृ०
१/२/५ ) ( भा० १० ७३ ) ( त० सं० ) ।
अनैकान्तिकत्वम् – सव्यभिचार त्ववदस्यार्थोनुसंधेयः ।
अन्तः- -१ संबन्धः । यथा ते विभक्तयन्ता: पदम् (गौ० सू० २१२/६० )
इत्यत्र । विभक्तिर्नाम वृत्तिः । अन्तो नाम संबन्धः । तेन वृत्तिमत्वं पदत्व-
मित्यर्थः । एतच्च गौतमसूत्र वृत्तावत्रैव स्पष्टम् । २ ध्वंसः । यथा सादिरनन्तः
प्रध्वंस: ( त० सं० ) इत्यादावन्तः । ३ चरमावयव इति शाब्दिकाः ।
४ निर्णय इति वेदान्तिनो वदन्ति । ५ स्वरूपम् । ६ स्वभावः ।
७ सीमा । ८ निकटम् । ९ मनोहर इति काव्यज्ञाः ।
 
-
 
अन्तःकरणम् – १ मनोबदस्यार्थोनुसंधेय: ( प० मा० ) । २ ज्ञानसुखा-
दिसाधनमाभ्यन्तरं मनोबुद्ध्यहंकार चित्ता दिपदाभिलप्यमान मिन्द्रियमिति
मायावादिन आहुः । तन्मते अन्तःकरणं चतुर्विधम् । तदुक्तम्- मनो
बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे
इत्युक्तकार्यभेदात् । अन्यत्र व्यक्तमुक्तम् - यदा तु संकल्पविकल्पकृत्यं तदा
भवेत्तन्मन इत्यभिख्यम् । स्याद्वृद्धिसंज्ञं च यदा तु वेति सुनिश्चितं
संशयरूपहीनम् । अनुसंधानरूपं तश्चित्तं च परिकीर्तितम् । अहंकृत्या
त्मवृत्त्या तु तदहंकारतां गतम् इति ( बाच० ) ।
 
अन्तरम् – १ मनः । २ अवकाशः । ३ अवधिः । ४ परिधानांशुकम् ।
५ अन्तर्धानम् । ६ मेदः । ७ परस्परवैलक्षण्य रूपविशेषः । ८ ताद-
र्ध्यम् । ९ छिद्रम् । १० आत्मीयम् । ११ विनार्थः । १२ बहिरर्थः ।
१३ व्यवधानम् । १४ मध्यम् । १५ सदृशम् । १६ आसनं च
( वाच० }}
 
-
 
अन्तर्धानम् – स्वनिधो योन्यकर्तृकदर्शनविषयताविरहस्तदुद्देश्यको व्यापारः ।
स्वविषय कप्रत्यक्षविरोधिव्यापार इति यावत् । यथोपाभ्यायादन्तर्धते छात्र
 
.