This page has not been fully proofread.

न्यायकोशः ।
 
0
 
पृ० १६२ ) । व्याप्यत्वासिद्धिश्च साध्याप्रसिद्धि साधनाप्रसिद्धि अव्यभि-
चरितसामानाधिकरण्याभाष इत्यादिभेदेनानेकविधा ( दीधि ० २ पृ०
२१८) ( गौ० वृ० ११२१८) (मु० ) ( दि० २ पृ० १६२ )
(वै० वि० ३११/१५) । तथा च साध्या प्रसिद्धिहेत्वप्रसिद्धिसाधना-
प्रसिद्धिव्याप्तिविशिष्टपक्षधर्मतादिविरहादयश्च व्याप्पत्वासिद्धिप्रमेदा एवं
नातिरिक्ताः ( दीधि ० २ पृ० २१७-२१८) ( न्या० म० २ पृ०
२१ ) । व्याप्यत्वासिद्धिव्याप्योपि व्याप्यत्वासिद्धिरेव न पृथग्भूतः इति ।
शिष्टं तु हेत्वाभासशब्दव्याख्याने दृश्यम् ।
 
व्याप्यवृत्तित्वम् ~[क] प्राचीनमते स्वसमानाधिकरणात्यन्ताभावाप्रति-
योगित्वम् ( दीधि ० ) । यथा घटत्वद्रव्यत्वादीनां व्याप्यवृत्तित्वम् ।
[ ख ] नवीनमते तु अनवच्छिन्नाधारतावस्वम् ( ग० पक्ष० ) [ग] ]
निरवच्छिन्नवृत्तिकत्वम् ( ग० २ चक्र० ) । यथा रूपस्य व्याप्यवृत्ति-
त्वम् ।
 
व्यावर्तकम् - १ आश्रयाणां परस्परमेदानुमितिजनकम् । यथा विशेषस्त-
तत्परमाणूनां व्या वर्तकः । तथा हि । अयं पृथिवीपरमाणुरितरपरमा-
णुभ्यो भिद्यते एतद्विशेषात् इत्यनुमाने विशेषस्य हेतुत्वं बोध्यम्
( वाक्य० पृ० २२ ) । यथा वा सानादिमखं महिष्यादेर्व्यावर्तकम् ।
इतरमेद विधेयकानुमितिजनकतावच्छेदकविषयताविशेषाश्रयः इति तदर्थः
( नील० १ पृ० ४ ) । २ कचित् विशेष्यतावच्छेदकसमानाधिकर-
णाभावप्रतियोगि। एतच व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं
चेति । तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो
दण्डादि: । द्वितीयं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरी-
णजटादिकं व्यावर्तकम् ( ग० व्यु० का० ३ १० ९१ ) । शिष्टं तु
तृतीया विशेषण उपलक्षण एतच्छन्दव्याख्यानेषु दृश्यम् ।
 
व्योमादेर्व्यावहारिकम् ( सर्व० सं० yo
 
व्यावहारिकम् – ( सस्वम्)
 
-
 
४४६ शां० ) ।