This page has not been fully proofread.

न्यायकोशः ।
 
प्रहविरोधितानवच्छेदकप्रकृतपक्षप्रकृतसाधनबै शिष्यग्रहविरोधितावच्छेद-
करूपशून्यस्य ज्ञानस्य विषयः असिद्धिः ( दीषि० २ पृ० २१७)।
यथा पर्वतो वह्निमान् काञ्चनमयधूमात् इत्यादौ धूमनिष्ठः काञ्चनमय-
स्वाभावो व्याप्यत्वासिद्धिः । प्राचीनास्तु [ ग ] व्यर्थविशेषणघटितं
हेतुतावच्छेदकम् (वै० वि० ३११११५ पृ० १५७) । स्वसमा-
नाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितमित्यर्थः ( दीधि ० २ पृ०
५९ ) । इदं च हेत्वसिद्धिः इत्युच्यते । हेत्वमिद्धिस्तु साधनाप्रसिद्धि-
रेव इति विज्ञेयम् । यथा पर्वतो वह्निमान् प्रमेयधूमादित्यादौ प्रमेयधूम-
त्वादिकं प्रमेयत्वरूपव्यर्थविशेषणघटिततया व्याप्यत्वासिद्धम् । [ घ ]
हेतुतावच्छेदके व्याप्यतानवच्छेदकत्वमपि भवति व्याप्यत्वासिद्धिः ।
तल्लक्षणं तु साभ्यसंबन्धितावच्छेदकत्वप्रकारकहेतुतावच्छेद कविशेष्यक-
ग्रहत्वावच्छिन्न प्रतिबध्यता निरूपित प्रतिबन्धकताशालियथार्थज्ञानविषयत्वम्
( ३० व० ) । यथा पर्वतो वहिमानीलधूमात् इत्यादौ नीलघूमत्वस्य
गुरुतया व्याप्यतानवच्छेदकत्वं व्याप्यत्वासिद्धिः इति वदन्ति । अयमत्र
प्राचामभिप्रायः । नीलघूमत्वं हि समानाधिकरणलघुघूमत्वघटितम्
इति घूमत्वमेव व्याप्यतावच्छेदकम् न तु नीलघूमत्वम् । अतस्तदव-
च्छिन्नव्याप्तेरसिद्धिः ( म० प्र० २ पृ० २७-२८) इति । अथ
वा नीलघूमत्वादेर्न व्याप्यतावच्छेदकत्वम् समानाधिकरणसंभवदव-
च्छेदकान्तरमपेक्ष्य गुरुत्वात् ( दीधि ० २ पृ० २१८) इति । यद्वा
व्याप्तिर्हि साध्यसंबन्धितावच्छेदकरूपा । गुरुधर्मश्च साध्यसंबन्धितानव-
च्छेदकः । अतो नीलधूमत्वादेः साध्यसंबन्धितानवच्छेदकत्वान्न व्याप्तिस्व-
रूपत्वम् ( गौ० वृ० १/२/८ ) इति । अत्रायमभिप्रायः । गुरुधर्मस्य
हेतुतावच्छेदकत्वस्थले सर्वत्र पशुमान् सास्नादिमतः इत्यादावपि प्राची
नैर्व्याप्यत्वा सिद्धिर्नाङ्गीक्रियते । अपि तु स्वसमानाधिकरणव्याप्यताव-
च्छेदकधर्मान्तरघटितस्थल एव ( राम० २ पृ० १६२ ) इति । अत्र
नव्यास्त्वेताङ्गीकुर्वन्ति । तथा हि व्यर्थविशेषणस्थले न व्याप्यत्वासिद्धि-
हेरखामासः । पुरुषस्त्वधिकेन निगृह्यते इति ( दीधि ० ) ( दि० २