2023-02-20 00:57:00 by ambuda-bot
This page has not been fully proofread.
न्यायकोच' !
यमिचारितासंबन्धेन तादृशोपाधिविशिष्टं वहिमत्वं व्याप्यत्वासिद्धम्
इति भावः । उपाघित्वज्ञानेन व्यभिचारानुमित्या व्याप्तिमहप्रतिबन्धः
फलम् ( वाक्य ० २ पृ० १८) । अत्रानुमानप्रकारश्च बहिर्धूमव्यभि-
चारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वाद्दटत्वादिवत् । यो यद्व्याप-
कव्यभिचारी सोपि तद्व्यभिचारी भवतीति ( न्या० बी० २-९८) ।
अत्र च पक्षस्यैव विपक्षत्वप्राध्या तत्र विद्यमानो हेतुरनैकान्तिकोपि भवति
इति मतान्तरम् ( प्र० च० पृ० ३२ ) ( प्र० प्र० ) । अत्रायमर्थः ।
धूमव्यापकत्वमान्धनसंयोगे गृहीतं चेत् धूम आर्द्रेन्धनसंयोगव्याप्यत्वं
तुल्यवित्तिवेद्यतया गृह्यते । एवम् वहेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं
चेत् वहौ तदव्याप्यत्वं गृह्यते । तदेव व्यभिचरितत्वम् । अर्थात् उपा-
धिव्यभिचरितत्वं साधने गृहीतं चेत् उपाधिभूतार्द्रेन्धनसंयोगव्याप्यधू-
मव्यभिचरितत्वं गृह्यत एव इति । एवं च प्रकृतानुमान हेतुभूतपक्षे वहौ
साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । तथा च धूमाभा-
ववदवृत्तित्वाभावरूपे धूमव्यभिचारे गृहीते वहौ घूमाभाषवदवृत्तित्वरू-
पव्याप्तिज्ञानप्रतिबन्धः फलम् । न च व्याप्यत्वासिद्धेर्व्यभिचारामेद इति
वाच्यम् । धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वम् घूमाभावव-
द्वृत्तित्वत्वेन व्यभिचारत्वम् इति मेदात् (न्या० बो०२ पृ० १८ - १९) ।
शिष्टं तु उपाधिशब्दव्याख्याने दृश्यम् । वेदान्तिनस्तूदाजद्दुः । व्याप्य-
त्वासिद्धो द्विविधः साध्यसंबन्धरहितः सोपाधिकसंबन्धश्च । तत्राद्यो यथा
सर्वं क्षणिकं सवात् इति । अत्र सर्वस्य पक्षत्वेन पक्षातिरिक्तसपक्षा-
भावात् साध्यसंबन्धाभावो ज्ञेयः । द्वितीयो यथा वैधी हिंसा पापसाधनं
हिंसावाद्वाह्मणहिंसावत् इति । अत्र हिंसात्वपापसाधनत्वयोः संबन्धे
निषिद्धत्वमुपाधि: ( प्र० च० पृ० ३१ ) ।
-
व्याप्यत्वासिद्धि: ~ ( हेत्वाभासः हेतुदोषः ) [ क ] आश्रयासिद्धि
स्वरूपासिद्धि एतदुभयभेदद्वयविशिष्टासिद्धिः ( म० प्र० २ पृ०
२७) । यथा वह्निसाध्य कधूलिपटले धूमनिष्ठव्याप्त्यभावो व्याप्यत्वासिद्धिः
( न्या० म० २ पृ० २१) । [ख] सविषयवृत्तिप्रकृत साध्यसाधन-