2023-02-20 00:56:59 by ambuda-bot
This page has not been fully proofread.
न्यायकोचाः ।
बच्छेदकधर्मान्तराघटितधर्मस्यैव व्याप्यतावच्छेदकत्वम् इति नियमः ।
अत एव केषांचिन्मते बहिमानीलधूमादित्यादौ धूमत्वस्य व्याप्यतावच्छेद-
'कत्वसंभवेन तद्बुटितनीलधूमत्वं गुरुतया न व्याप्यतावच्छेदकम्
( मु० २ पृ० १६२) । अत्र नियमे धर्मे तदघटितत्वं च तदविष-
यकप्रतीतिविषयत्वम् ( दीवि० २ पृ० ५९ ) । व्याप्यत्वासिद्धो द्विविधः
एको व्याप्तिग्राहकप्रमाणाभावमात्रात् अपरस्तूपाधिसद्भावात् । तत्र
प्रथमो यथा यत्सत्तरक्षणिकं यथा प्रदीपादि । द्वितीयो यथा क्रत्वन्तर्व-
तिनी हिंसा अधर्मः हिंसात्वात्तुबाह्यहिंसावत् इति ( त० भा० )
( प्र० प० ) ( प्र० च० पृ० १९) । अत्र निषिद्धत्वमुपाधिः ।
अन्यत्र चोक्तम् । व्याप्यत्वासिद्धो द्विविधः साध्येनासहचरितः सोपा-
धिकसाध्यसंबद्धश्च । सोपाधिके व्याप्यत्वासिद्धशब्दस्य समन्वयः क्रियते ।
व्याप्यत्वस्यासिद्धिर्यस्मात् इति व्युत्पत्त्योपाधिरेव व्याप्यत्वासिद्धिस्तद्वान्
इति । सोपाधिकसाध्यसंबद्धो हेतुश्च अनैकान्तिकोपि इति मतान्तरम्
( प्र० प्र० ) । प्रथमो यथा यत्सत्तत्क्षणिकं यथा घनः संश्च विवादा-
स्मदीभूतः शब्दादिः इति । अत्र हि शब्दादिः पक्षः । तंत्र क्षणिकत्वं
साध्यम् । सत्त्वं हेतुः । न च अस्य हेतोः क्षणिकत्वेन सह व्याप्तौ
प्रमाणमस्ति इति विज्ञेयम् ( त० मा० हेत्वा० पृ० ४७ ) । द्वितीयो
यथा स श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तोमवत् इत्यत्र
मैत्रीतनयत्वात् इति हेतुर्व्याप्यत्वासिद्धः । अत्र मैत्रीतनयत्वेन श्यामत्वं
साध्यम् । तेन मैत्रीतनयत्वं श्यामत्वे न प्रयोजकम् । किंतु शाकाद्याहा-
रपरिणाम एव । प्रयोजकच उपाधिः इत्युच्यते । अतः मैत्रीतनयत्वस्य
श्यामत्वेन संबन्धे शाकाद्याहारपरिणाम उपाधिः । यथा अग्नेर्धूमसंबन्ध
आर्द्रेन्धनसंयोगः । अत्रोपाधिसंबन्धाद्याप्तिर्नास्ति ( त० भा० हेत्वा०
पृ० ४७ ) । यथा वा पर्वतो धूमवान् वहिमत्वादित्यत्र वह्नि-
मत्त्वं व्याप्यत्वासिद्धम् ( त० सं० ) ( त० मा० २ पृ० ४७ ) ।
अत्रार्द्रेन्धनसंयोग उपाधिः । भवति चार्ट्रेन्धनं साध्यस्य
धूमस्य व्याप-
कम् साधनस्य बहेः भव्यापकं च इति ( प्र० प्र० ) ( त० सं० ) ।