This page has not been fully proofread.

स्यायकीशः ।
 
व्यासेः । नियमः अव्यभिचारः । तथा च अव्यमिचरितसाभ्यसंबन्धो
व्याप्तिः इत्युक्तं भवति इत्याहुः ( प्र०प० टी० वेदेश० पृ० ३० ) ।
व्याप्यव्यापकयोर्वैयधि करण्येपि कचिड्याप्तिः । सा च उपरि सविता भूमे-
रालोकवस्वादित्यादाबनुपपत्या स्वीक्रियते ( म० प्र० ४ पृ० ६९ ) ।
अत्रेदं बोध्यम् । ( १ ) कयोश्चित् हेतुसाध्ययोः समानदेशकालयो-
यप्तिः । यथा रसस्य रूपेण । (२) कयोश्चित्समानदेशत्वेपि भिन्न-
कालयोः । यथा घूमस्याग्निना । (३) कयोश्चित्समानकालत्वेपि भिन्न-
देशयोः । यथा कृत्तिकोदयस्य रोहिण्युदय आसत्या । ( 8 ) कयो-
श्चिद्भिनदेशकालयोः । यथा अधोदेशे नदीपूरस्य ऊर्ध्वदेशे वृध्या ।
(५) कस्यचित्कादाचित्कस्य समानदेशत्वेपि सार्वकालीनेन । यथा
पतनस्य गुरुत्वेन । (६ ) कस्यचित्समानदेशस्वेपि सार्वकालिकस्य
कादाचित्केन । यथा शरीरत्वस्य विनाशित्वेन । ( ७ ) कस्य चित्प्रदेश-
वर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन । (८) कस्यचिद्ध्या-
प्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन । (९ ) कयोश्चिदे-
कावर्तिनोर्व्याप्यवर्तिनोरप्यवयवमेदेन । यथा तुलोबमनावनमनयोः
इत्यादि (प्र०प० पृ० १३-१४ ) । तथा च व्याप्तिस्मरणसह कृत-
लिङ्गस्य सम्यग्ज्ञानम् सम्यग्ज्ञातं वा लिङ्गम् व्याप्ति प्रकारानुसारेण समु-
चित्तदेशादौ लिङ्गप्रमां जनयत् अनुमानम् इत्युक्तं भवति । अनुमानस्य
द्विविधं सामर्थ्यम् व्याप्तिः समुचितदेशादौ सिद्धिश्च । न तु पक्षधर्मतानि-
यमः ( प्र० १० पृ० १४ ) । व्याप्यस्य पक्षधर्मत्वं नाम समुचितदे-
शादिवृत्तित्वम् ( प्र० च० पृ० १९) ।
 
-
 
·
 
व्याप्यत्वम् - १ [ क ] व्यायाश्रयत्वम् (मु० २ ) । अत्रार्ये विग्रहः ।
व्याप्यते इति व्याप्यम् (वि आप् ण्यत् ) । तस्य भावो व्याप्यत्वम् व्याप्ति-
कर्मत्वम् इति । यथा वहिव्याप्यो घूमः इत्यादौ घूमस्य व्याप्यत्वम् ।
[ ख ] यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य स्वरूपं तत्तस्य
व्याप्यम् । यथा वहिसामानाधिकरण्यं धूमे घूमत्वेनावच्छिद्यते । सोपाधौ
तूपाधिना । अत एव साधनतावच्छेदकमिनेन येन साधनताभिमते