This page has not been fully proofread.

न्यायकोशा ।
 
भवन पूर्वे व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्कुटीभवति
तस्वतः ॥ इति । यत्र घूमस्तत्राग्मिः इति साहचर्यनियमो ब्यासिः ।
एतद्वाक्ययोजना त्वित्थम् । यत्र घूमस्तत्राभिः इतीत्यत्र इतिपदं साह-
शवाक्यपरम् । तत्तात्पर्यग्राहकं यत्रेत्यादि वाक्पम् । इतिपदार्थस्य
च बोध्यतासंबन्धेन साहचर्य नियमेन्वयः ( वाक्य ० २ पृ० १३) इति ।
साहचर्यनियम इत्यस्यार्थच साहचर्ये सामानाधिकरण्यम् । तस्य नियमः ।
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् इत्यर्थः
( त० दी० २ पृ० २० ) । तथा च हेतौ नियतसामानाधिकरण्यम् ।
तच्च साधनव्यापकसामानाधिकरण्यम् ( दीधि ० २ ) ( प्र० प्र०) ।
एवं च हेतोर्व्यापकं यत्साध्यं तत्सामानाधिकरण्यं हेतौ व्याप्तिः इति
सुगमः पर्यवसितोर्थः । यथा पर्वतो वह्निमान् धूमादित्यादौ सद्धेतौ
घूमस्य व्यापको वह्निः तत्सामानाधिकरण्यं घूमे वर्तते इति लक्षणसम-
न्वयो बोध्यः । अत्र घूमसमानाधिकरणो योत्यन्ताभावः घटास्यन्ताभावः
न तु वह्वयत्यन्ताभावः । तथा च तदप्रतियोगी बहिः तस्सामानाधिकरण्यं
धूमे वर्तते । धूमवान्वहेरित्यादौ असद्धेतौ तु घूमसामान्याभाव-
स्यापि हेतुसमानाधिकरणतया तत्प्रतियोग्येव घूमः इति नातिव्याप्तिः
 

 
( नील० २ पृ० २०) । अथ वा नियतसाहचर्ये व्याप्तिः । नियतस्त्वं
व्यापकत्वम् । साहचर्ये सामानाधिकरण्यम् । तथा च धूमनियतवहिसा-
मानाधिकरण्यम् (न्या० बो० २ १० १४) इति । यद्वा साहचर्य
साध्यनिष्ठहेतु सामानाधिकरण्यम् । तन्नियमस्तन्मात्रसत्त्वम् । तद्विरोध्य-
सत्त्वम् इति यावत् । तथा च साध्यनिष्ठहेतुव्यापकत्वं स्वाश्रयसामानाधि-
करण्यसंबन्धेन हेतुसंबद्धम् । व्यापकताश्रयसामानाधिकरण्यम् इति पर्यव
सितोर्थ: (वाक्य० २ पृ० १३) । वेदान्तिनस्तु साहचर्ये हेतोः साध्येन
संबन्धमात्रम् । तस्य नियमो नियतत्वम् । अव्यभिचरितसंबन्ध इत्यर्थः
इत्याहु: ( प्र० च० पृ० २९) । टीकाकृतो वेदेशतीर्थचरणास्त
साहचर्ये स्वदेशकालविशेषगतस्य हेतोः स्वदेशकाल
विशेषगतेन साध्येन
संबन्धमात्रम् । न तु सामानाधिकरण्यम् । अधोदेशनदी पूरादाव-
१०६ न्या० को०