This page has not been fully proofread.

समुदायार्थस्तु
 
( दि० २ व्यातिनि० ) । ( ९ ) प्रतियोगिव्य धिकरणखसमानाधिक
रणासन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । (१०) यत्समाना-
भिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधि-
कारण्यं वा । अन्यवृत्तिवह्नितद्वतोरन्यवृत्तिधूमवन्निष्ठात्यन्ताभावान्योन्या-
भावप्रतियोगित्वाद्व्यधिकरणवह्निघूमयोर्न व्याप्तिः । किं तु तत्तद्धूमस्य
समानाधिकरणतत्तद्वहिना (चि० २ पृ० ६-७ ) । ( ११ )
स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यवत् तत्कत्वं वा । ( १२)
यावतत्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यत् तत्प्र-
तियोगिकात्यन्ताभावसमानाधिकरणं यत् तेन समं सामानाधिकरण्यम् ।
साधनसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदका
यावन्तो धर्मा यद्धर्मावच्छिन्न समानाधिकरणात्यन्ताभावप्रतियोगितावच्छे-
दकाः तद्धर्मावलीढसामानाधिकरण्यम् इति । एतदेव यावत्स्वव्यभिचारि-
व्यभिचारिसाध्यसामानाधिकरण्यम् अनौपाधिकत्वम् गीयते ( चि०२
पृ०८) । (१३) यद्वा यावद्यत्समानाधिकरणात्यन्ताभावाप्रतियोगिप्रति-
योगिकात्यन्ता भावासामानाधिकरण्यं यस्य तस्य तदेवानीपाविकत्वरूपा
व्याप्ति: (चि० २५० ६ - ८) । समुदितार्थश्च साध्यव्यापकताबच्छेद-
कावच्छिनप्रतियोगिताकात्यन्ताभावत्वव्यापकस्वसामानाधिकरण्यसामान्या-
भावकत्वम् इति ( दीधि० २०५७) । (१४ ) यद्वा यत्संबन्धिताव-
च्छेदकरूपवावं यस्य तस्य सा व्याप्तिः ( चि० २ पृ० ८) । यथा
बहिसाध्यकधू महेतुक स्थले वह्निमान् घूमादित्यादौ यत्र घूमस्तत्राग्निः
इति साहचर्यनियमो व्याप्तिः ( त० भा० ) ( मू० म० १ ) ( भा०
प० ) (मु० २ ) ( त० सं० ) । तथा हि धूमस्य वहिसंबन्धित्वे
घूमत्वमवच्छेदकम् । घूममात्रस्य वह्निसंबन्धित्वात् लक्षणसमन्वयः ।
वस्तु धूमसंबन्धे न वहित्वमवच्छेदकम् । वहेघूमासंबन्धिनि तप्तायः पिण्डे
गतत्वात् । अतस्तत्र नातिव्याप्तिः (चि २ पृ० ८) । अत्र यदन्यून-
वृत्तिसाभ्यम् तत्त्वम् स्वव्यापकसाध्य संबन्धित्वपर्यवसन्नम् इति लघुभूतः
परिष्कारो विज्ञेयः ( दीधि ० २ पृ० ६१) । अत्र नियमः व्याप्यस्य