This page has not been fully proofread.

न्यायकोशः ।
 
तथा अबच्छेदकत्वमिह पारिभाषिकमेव प्रतियोगितावच्छेदकानतिरिक्त-
वृत्तित्वरूपं ग्राह्यम् । तच्च तदवच्छिन्नप्रतियोगिताकाभावबदसंबद्धस्वविशि-
ष्टसामान्यकत्वम् । अथ वा स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छे-
दकतत्कत्वम् । यद्वा स्वविशिष्टसंबन्धिनिष्ठाभाव प्रतियोगितानवच्छेदका-
बच्छेद्यत्वम् ( दीधि० २ अवच्छेदकनिरु० पृ० ४२) । अत्र यन्त्र
भवति इत्येतत्पर्यन्तेन ग्रन्थेन यापदार्थस्य व्यापकत्वं बोभ्यते । तेन
व्यापकसामानाधिकरण्यं व्याप्तिः इति फलितम् । एवम् उत्तरत्रापि
ज्ञेयम् । इयमेव सर्वोपसंहारप्रवृत्तव्याप्तिः इत्युच्यते । तदर्थस्तु सकल-
हेत्वधिकरणान्तर्भावेन साध्यसत्त्व निर्वाह्यव्याप्तिः इति ( ग० बाघ ० ) ।
( ५ ) प्रतियोग्यसमानाधिकरणयद्रूपविशिष्टसमानाधिकरणात्यन्तामाव-
प्रतियोगितानवच्छेदको यो धर्मः तद्धर्मावच्छिन्नेन येन केनापि समं
सामानाधिकरण्यं तद्रूपविशिष्टस्य तद्धर्मावच्छिन्नयावन्निरूपिता व्याप्तिः ।
स्वावच्छिन्नत्व साध्यतावच्छेदकसं बन्धावच्छिन्नत्व एतदुभयाभाववत्तादृशप्र-
तियोगितासामान्यको यो धर्मः तदवच्छिन्न सामानाधिकरण्यम् इति फलि-
तोर्थ: ( ग० सिद्धा० ) । दण्ड्यादौ साध्ये परंपरासंबद्धं दण्डत्वादिक-
मेव साध्यतावच्छेदकम् । अतः तत्तद्दण्ड्यभावमादाय नाव्याप्तिः
( दीवि० २ पृ० ३२ ) । ( ६ ) विशेषणताविशेषावच्छिन्नयद्धर्मवि-
शिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यस्वं तत्संबन्धावच्छि-
नसाधनसमानाधिकरणात्यन्ताभाव प्रतियोगितासामान्ये नास्ति साधने
तद्धर्मविशिष्टसामानाधिकरण्यं व्याप्तिः ( दीधि० २ पृ० ३२ ४३ ) ।
(७) यादृशप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसंबन्धावच्छिन्ननि-
रूपकताका घिकरणताबदन्यत्वं हेतुतावच्छेदकसंबन्धावच्छिन्नहेतुतावच्छेद-
कावच्छिन्न निरूपकताकाधिकरणतावतः तन्निरूपित साध्यतावच्छेदकताघ-
टकसंबन्धावच्छिन्नावच्छेदकताशून्यं यत् साध्यतावच्छेदकम् तदवच्छिन्न-
निरूपकताकाधिकरणतावद्वृत्तिवृत्ति यत् हेतुताबच्छेदकं तद्वत्त्वम् (वै०
वि० ३।१।१४ पृ० १५२ ) ( मु० २ ) । (८) यद्धर्मविशिष्टानधिकर-
णत्वं हेत्वधिकरणस्य तद्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यम्
 
८३९