This page has not been fully proofread.

८३८
 
न्यायकोशः ।
 
धात्मकान् व्यधिकरणधर्मावच्छिन्नाभाषान् यथायथमादाय पूर्वोक्तानां
सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । अत्राधिकं तु गदाध-
र्यादौ चतुर्दशलक्षण्यां दृश्यम् । विस्तरभयान्नात्र दर्शितम् इति विरम्यते ।
अथ सिद्धान्तव्याप्तयः प्रदर्श्यन्ते । तत्र सिद्धान्तसिद्धान्वयव्याप्तिस्तु
(१) व्यापकस्य व्यायाधिकरण उपाध्यभावविशिष्टः संबन्धः । इयं
सिद्धान्तसिद्धा व्याप्तिश्व हेतुनिष्ठा साध्यनिरूपिता च अन्वयव्याप्तिः
इत्युच्यते इति विज्ञेयम् ( न्या० बी० २ पृ० १४ ) । ( २ ) अव्यभि-
चरितसाध्य सामानाधिकरण्यम् । अस्ति चेदं पर्वतो वहिमान् धूमवत्त्वात्
इत्यादिसद्धेतौ । यत्र यत्र धूमस्तत्र वह्निः इति नियमस्य सत्त्वात् । नास्ति
चेदं पर्वतो घूमवान् बहिमस्वात् इत्याद्यसद्धेतौ । यत्र यत्र वह्स्तित्र तत्र
धूमः इति नियमस्यासत्त्वात् । तप्तायः पिण्डे वह्निसत्त्वेपि धूमासत्त्वात्
( त० कौ० २ पृ० ११) । (३) साधनत्वाभिमतसमानाधिकरणा-
न्योन्याभाव प्रतियोगितानवच्छेदकसाध्यकत्वम् ( न्या० सि० दी० पृ०
५५ ) । यथा वह्निमान् धूमात् इदं वाच्यं ज्ञेयत्वादित्यादौ सद्धेतौ
व्याप्तिः । अस्य समन्वयः क्रियते । वहिमान्धूमादित्यादौ साधनत्वा मिमतः
धूमः । तस्य समानाधिकरणः तस्याधिकरणे पर्वते वर्तमानः अन्यो-
न्याभावः । न हि वहिमद्भेदो भवति किं तु घटादिमद्भेद एव । तस्य
 
: प्रतियोगिताया अवच्छेदको घटादिरेव । अनवच्छेदकस्तु साध्यात्मको
वहिः । सत्कत्वं तरसामानाधिकरण्यम् धूमेस्ति इति । इदं वाथ्यं
ज्ञेयत्वात् इत्यादिकेवलान्वयिसद्धेतुस्थले तु ज्ञेयस्त्राधिकरणं घटः । तत्र वर्त
मानोन्योन्याभावः । न हि वाच्यत्ववद्भेदः किं तु पटत्ववद्भेदः । तस्य प्रति-
योगिताया अवच्छेदकं पटत्वम् । अनवच्छेदकं तु साध्यात्मकं वाच्यत्वम् ।
तत्कत्वं ज्ञेयत्वेस्ति इति । ( ४ ) प्रतियोग्यसमानाधिकरणयत्समाना-
धिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं
तस्य सामानाधिकरण्यम् । अत्र भावत्वं च इदमिह नास्ति इदमिदं न
भवति इति प्रतीतिनियामको भावाभावसाधारण: स्वरूपसंबन्धविशेषः ।
अतः न अभावसाध्यकव्यभिचारिण्यतिप्रसङ्गः ( दीवि० २ पृ० ४१) ।