This page has not been fully proofread.

न्यायकोचः ।
 
तावच्छेदकरूपावच्छिना यावन्त्यः प्रतियोगिताः प्रत्येकं तत्सदवच्छेदका-
वच्छिन्न तदाश्रयनिष्ठप्रतियोगितावच्छेदकताकमेदाधिकरणवृत्तित्वत्वब्याप-
कप्रतियोगिताकत प्रतियोगितानिरूपका भावसजातीयाभाववस्वम् इति स
मुदितार्थ: ( ग० चतु० पृ० ४२ ) । अत्र साजात्यं च समानासमा-
नाधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वान्यतररूपेण ग्राह्यम् ( दीवि० २
पृ० १७) । (१७) यावन्तस्तादृशाः साध्यामावाः प्रत्येकं तेषां सजा-
तीयस्य व्यापकीभूतस्य व्याव्यवृत्तेरभावस्य प्रतियोगितावच्छेदकेन धर्मेण
यद्रूपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवत्वम् । (१८) यावन्तस्ता-
दृशाः साध्याभाषाः प्रत्येकं तत्प्रतियोगितावच्छेदकेन धर्मेण यद्पावच्छिन्नं
प्रति व्यापकत्वमवच्छिद्यते तद्रूपवस्वं वा । ( १९ ) परे तु वृत्तिमद्वृत्तयो
यावन्तः साध्याभाववद्वृत्तिस्वाभावाः तद्वस्वम् इत्याहुः । इदं लक्षणं च
कूटाघटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ४७ ) । (२०) अन्ये तु
वृत्तिमद्वृत्तयो यावन्तः साध्याभावसमुदायाधिकरणवृत्तित्वाभावाः तद्वत्त्वम्
इत्याहुः । इदं लक्षणं तु कूटघटितलक्षणम् इत्युच्यते ( ग० चतु●
पृ० ५२) । (२१) साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपा-
वच्छिन्न प्रतियोगिताकव्याप्यवृत्तिस्वसमानाधिकरणयाबदभावाधिकरणवृत्ति-
त्वाभावा वृतिमद्वृत्तयो यावन्तः तद्वस्वम् ( दीधि० २ चतुर्दशल० पृ०
१४ - २१ ) । इदं लक्षणं तु पुच्छलक्षणम् इत्युच्यते इति विशेषम् ।
यथा अम्वयव्यतिरेकिणि पर्वतो वह्निमान्घूमादित्यादौ केवलान्वयिसाध्य-
कस्थले इदं वाच्यं ज्ञेयत्वा दित्यादौ केवलव्यतिरेकिणि पृथिवी इतरेभ्यो
भिद्यते गन्धवत्त्वादित्यादौ च सद्धेतौ घूमादिहेतुनिष्ठा वड्पादिसाध्यनि-
रूपिता व्याप्तिः । पर्वतो बहिमानित्यत्र घटस्वावच्छिन्न प्रतियोगिताकव-
इयभाववाहित्वावच्छिन्न प्रतियोगिताकघटाभावघटत्वा धवच्छिन्न प्रतियोगिता-
कवृत्तित्वाभावाद्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय
पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । इदं बाय-
मित्यत्र च समवायिस्वावच्छिन्न प्रतियोगिताक बाध्यत्वा भावज्ञेयत्वत्वावच्छि-
नप्रतियोगिताक वाच्यत्वाभाव घटस्वाद्यवच्छिन्न प्रतियोगिताकवृत्तित्वाभावा-