This page has not been fully proofread.

न्यायकोशः ।
 
त्वादीनामभावः सुलभः ( दीधि ० २ ) । वह्निमान् धूमादित्यादौ तु वह्नि-
त्वेन घटाभाव: सुलभः इति विज्ञेयम् । इदमपि च लक्षणं दीधितिकृता
स्वयं कृतम् इति द्वितीयं स्वलक्षणम् इत्युच्यते इति बोध्यम् ।
चक्रवर्तिकृतं लक्षणत्रयं चेत्थम् । (१०) व्याप्यवृत्तेर्हेतुसमानाधिक-
रणस्य साध्याभावस्य प्रतियोगिताया अनवच्छेदकं यत् साध्यतावच्छेद-
कम् तदवच्छिन्नसामानाधिकरण्यम् । यादृशप्रतियोगितासंबन्धावच्छिन्न-
प्रकारतावच्छेद कयत्किंचिद्धर्मावच्छिन्नानधिकरणत्वं हेतुमतः तदनवच्छे-
दकावच्छिन्नसामानाधिकरण्यम् इति पर्यवसितोर्थ: ( ग० चतु०
चक्र० ) । ( ११ ) हेतुसमानाधिकरणस्य व्याप्यवृत्तेरभावस्य प्रतियो-
गिताया: सामानाधिकरण्येनानवच्छेदकं यत् साध्यतावच्छेदकम् तद-
वच्छिन्नसामानाधिकरण्यम् । (१२) हेतुसमानाधिकरणस्य प्रतियो-
गिव्यधिकरणस्याभावस्य प्रतियोगितायाः सामानाधिकरण्येनानवच्छेदकं
यत् साध्यतावच्छेदकम् तदवच्छिन्नसामानाधिकरण्यं वा । एतानि त्रीणि
लक्षणानि चक्रवर्तिलक्षणानि इत्युच्यन्ते (ग० चतु० ) ) (१३)
साध्यतावच्छेदकविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्व समानाधिकरण-
साभ्याभावत्वकत्वम् । साध्यतावच्छेदकविशिष्टसाध्यसामानाधिकरण्यान-
तिरिक्तवृत्ति यद्धर्मविशिष्टसमानाधिकरणसाध्याभावत्वम् तद्धर्मवत्त्वम्
इति समुदितोर्थः ( ग० चतु० पृ० ३० ) । ( १४ ) यत्समानाधि-
करणसाध्याभावप्रमायां साध्यवत्ताज्ञान प्रतिबन्धकत्वं नास्ति तत्त्वम् ।
एते च द्वे प्रगल्भलक्षणे इत्युच्येते ( ग० चतु० ) । (१५) साध्या-
भाववति यद्वृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वम् । यनिष्ठसाध्या-
भाववद्वृत्तित्वत्व विशिष्ट निरूपित विषयितासामान्ये प्रकृतानुमितिप्रतिबन्ध-
फताबच्छेदकत्वाभावः तत्त्वम् इति समुदितार्थ: ( ग० चतु० पृ०
३१) । इदं च विशारदलक्षणम् इत्युच्यते ।
 
अथ मिश्रकृतं लक्षणत्रयं प्रदर्श्यते । (१६) यावन्तः साध्याभावाः प्रत्येकं
तत्तत्सजातीया ये तत्तदधिकरणनिरूपितवृत्तित्वाभावाः तद्वत्वम् । स्वाश्र-
यनिष्ठमेदप्रतियोगिताबच्छेदकतावच्छेदकसाभ्यता
बच्छेदकावच्छिन्नव्यापक-