This page has not been fully proofread.

न्यायकोशः ।
 
८३५
 
२ पृ० ११ - १२) । साध्यतावच्छेदकसंबन्धावच्छिन्नं यत्साभ्यवस्वं
तदवच्छिन्नप्रतियोगिताकस्यान्योन्याभावस्य स्वप्रतियोगितावच्छेदकवश्व-
बुद्धिविरोघिताघटकसंबन्धेन यदधिकरणम् तन्निरूपितहेतुतावच्छेदक-
संबन्धावच्छिन्नवृत्तितानवच्छेदकहेतुतावच्छेदकधर्मवत्त्वम् इति समुदि-
तार्थ: (वै० वि० ३११/१४ ) ( मु० २ ) । ( ६ ) साध्यासामाना-
धिकरण्यानधिकरणस्वम् । तस्य निष्कृष्टार्थस्तु साध्यनिष्ठाधेयत्वानिरूप-
काधिकरणत्वव्यापकाभावप्रतियोग्यधिकरणतासामान्यकत्वम् इति । तेन
सत्तावान् द्रव्यत्वादित्यादौ न दोषः ( दीधि ० २ पृ० १३ ) । इदं
लक्षणं सिंहलक्षणम् इत्युच्यते । (७) साध्यवैयधिकरण्यानधिकरण-
स्वम् ( चि० २ पृ० २ ) । इदं लक्षणं व्याघ्रलक्षणम् इत्युच्यते ।
एतावन्ति सप्त लक्षणान्यन्वयव्यतिरेकिकेवलव्यतिरेकिणोर्हेत्वोर्लक्षणानि ।
न तु केवलान्वयिनो हेतोः । तत्र साध्याभावाद्यप्रसिद्धेः । अग्रिमलक्ष-
णानि तु केवलान्वयिसाधारणान्यपि इति बोध्यम् । (८) यत्समाना-
धिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताका
यावन्तः अभावाः प्रतियोगिसमानाधिकरणाः तत्त्वम् । साध्यतावच्छेद-
कावच्छिन्नव्यापकतावच्छेदिका या या प्रतियोगिता तत्तदाश्रयसामानाधि-
करण्यं यत्र कचिद्यावदधिकरणान्तर्भावेन तत्त्रम् इति समुदितार्थः
( ग० चतु० ) । अत्र यावन्तः अभावाः इत्यनेन केवलान्वयिनि वाच्य-
स्वादौ साध्ये समवायितया वाच्यत्वाभावम् वहिमान् धूमादित्यादौ तु
घटत्वेन वहथभावादिकं व्यधिकरणधर्मावच्छिन्नाभावमादाय लक्षणसम-
न्वयः कर्तव्यः इति विज्ञेयम् । इदं लक्षणं च दीधितिकृता स्वयं
कृतम् इति प्रथमं स्वलक्षणम् इत्युच्यते । एतल्लक्षणमारम्य चतुर्दश-
लक्षणानि सौन्दडोपाध्यायाभिमतव्यधिकरणवर्मावाच्छन्नाभावाभिप्राय-
काणि चतुर्दशलक्षणीसंज्ञकानि च भवन्ति इति बोध्यम् । (९) यत्समा
नाधिकरणानां साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्न-
प्रतियोगिताकानां यावदभावानां प्रतियोगितावच्छेदकावच्छिन्नसामानाधि-
करण्यम् तत्त्वं वा । अत्र केवलान्वयिसाध्यकस्थले ज्ञेयत्वत्वादिना वाच्य-