This page has not been fully proofread.

८३४
 
न्यायकोशः ।
 
मेन व्यातिप्रहस्तु ब्राह्मणो न हन्तव्यः गौर्न पदा स्प्रष्टव्या इति । अत्र
दृष्टान्तापेक्षा नास्ति । अत्रेदं बोध्यम् । कार्य कारणमात्रमनुमापयति ।
कारणं तु समग्रमेव कार्यम् ( प्र० प० पृ० १४ - १६) इति ।
तत्र पूर्वपक्षीयान्वयव्याप्तिश्च ( १ ) साध्याभाववदष्वृत्तित्वम् ।
(२) साध्यवद्भिनसाध्याभाववदवृत्तित्वम् । (३) साध्यवत्प्रतियोगि-
कान्योन्याभावासामानाधिकरण्यम् । ( ४ ) सकलसाध्याभाववन्निष्ठा-
भावप्रतियोगित्वम् । (५) साध्यवदन्यावृत्तित्वं वा ( चि० २ पृ०
२ ) । यथा पर्वतो वह्निमान् घूमादित्यादौ वढेरत्यन्ताभाववति वह्निम-
द्विने वा जलादौ धूमो नास्ति इति घूमादौ वर्व्याप्तिः । अत्र प्रथम-
लक्षणस्य साध्यतावच्छेदक संबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति-
योगिताकप्रतियोगिव्यधिकरणसाध्या भावाधिकरण निरूपित हेतुतावच्छेदक-
संबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः इति समुदितार्थः ।
अत्र प्रतियोगिवैयधिकरण्यं च प्रतियोगिताबच्छेदक
संबन्धावच्छिन्नप्रति-
योगितावच्छेदकावच्छिन्नवैयधिकरण्यं विज्ञेयम् ( न्या० बो० २ १०
१४ ) । एतानि च पञ्च अव्यभिचरितत्वपद प्रतिपाद्यानि व्याप्यलक्षणानि
ब्यातिस्वरूपाणि च पञ्चलक्षणी इति नैयायिकैर्व्यवह्नियन्ते । द्वितीय-
लक्षणे साध्यवद्भिने वर्तमानः यः साध्याभावः तद्दवृत्तित्वम् इति
विग्रहो ज्ञेयः । अत्र लक्षणे कर्मादौ संयोगाद्यभावस्य भिन्नत्वे मानाभा-
वात् अव्याप्तिः । अतो द्वितीयलक्षणे अस्वारस्यमास्थाय तृतीयलक्षणमुक्तं
साध्यवत् इति । अत्र तृतीये लक्षणेपि हेतोः साध्यवत्पक्षभिन्न दृष्टान्त-
वृत्तित्वेनाव्याप्तेश्चतुर्थमुक्तं सकलेति । साकल्यं साध्याभाववति साध्ये च
विशेषणं बोध्यम् । साध्याभावो वा साध्यतावच्छेदकावच्छिन्नप्रतियोगि
ताको प्रायः । तेन विपक्षैकदेशनिष्ठाभावप्रतियोगिनि व्यभिचारिणि
नातिव्याप्तिः । न वा नानाव्यक्तिसाध्यकसद्धेतावव्याप्तिः । चतुर्थलक्षणा-
नास्थायां कारणं तु यत्रैकव्यक्तिकं साध्यं विपक्षो वा तत्र निर्धूमत्वादि-
व्याप्ये तत्त्वेन साध्ये निर्वह्नित्वादौ चाव्याप्तिः । तत्र हेत्वभावस्य वढ्यादेः
प्रत्येकं यावद्विपक्षावृत्तित्वात् । अतः पञ्चममुक्तं साध्यवत् इति ( दीघि ०