This page has not been fully proofread.

न्यायकोशः ।
 
पसाव्यस्य खपुष्पशशशृङ्गादिवत्तुच्छत्वाभावेन हेतुष्यापकसाभ्यसामाना-
धिकरण्यग्रहोत्पत्तौ बाधकाभावः इति । सा व्याप्तिः द्विविधा अन्वय-
व्याप्तिः व्यतिरेकव्याप्तिश्च । तत्रान्वयव्याप्तिरपि द्विविधा पूर्वपक्षव्याप्तिः
सिद्धान्तसिद्धव्याप्तिश्चेति । उभयविधान्वयव्याप्तिज्ञाने व्यभिचारज्ञानाभावः
सहचारज्ञानं च कारणम् । व्यतिरेकव्याप्तिज्ञाने तु साध्याभावे हेत्रभा-
वस्य साहचर्यज्ञानं व्यभिचारज्ञानाभावश्च कारणम् इति विवेकः
( भा० प० श्लो० १३८) । व्याप्तिग्रहस्तु नानाव्यक्तिसाध्यहेतुकस्थले
वहिमान् धूमादित्यादौ सामान्यलक्षणप्रत्यासच्या सकलवहिघूमादिवि-
षयको जन्यते ( चि० २ पृ० १७ ) । अत्राहुः । व्याप्तिग्राहकं तु
उपाध्यभावग्रहणजनितसंस्कारसहकृतेन भूयोदर्शनजनितसंस्कारसहक-
तेन साहचर्यग्राहिणा प्रत्यक्षेणैव व्याप्तिरवधार्यते ( त० मा० पू०
१० ) । अथ वा व्यभिचारज्ञानविरहसहकृतं हेतुसाध्यसहचारदर्शनं
व्याप्तिग्राहकं भवति । व्यभिचारज्ञानं च निश्चयः शङ्का वा । सा च
कचिदुपाधिसंदेहात् कचिद्विशेषादर्शनसहितसाधारणधर्म दर्शनादुत्पद्यते ।
तद्विरहश्व कचिद्विपक्षबाधकतर्कात् कचित् स्वतःसिद्ध एव ( चि० २
पृ० १३-१४ ) ( त० कौ० २ ) ( त० दी० २ ) । यद्वा व्यभि
चाराग्रहः सहचारग्रहश्व व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याति-
ग्रहे प्रतिबन्धकत्वात्तदभावः कारणम् । एवम्
अन्वयव्यतिरेकाम्यां
सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणम् । व्यभिचारा-
स्फूर्ती सक्कद्दर्शनेपि कचिद्व्याप्तिग्रहात् । कचित् व्यभिचारशङ्काविधूनन-
द्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र
विपक्षबाधकतर्कोपेक्षितः । तथा हि वह्निविरहिण्यपि घूमः स्यात् इति
यद्याशङ्का भवति तदा सा वह्निघूमयोः कार्यकारणभात्रस्य प्रतिसंधाना-
निवर्तते । यथयं वह्निमात्र स्यात्तदा धूमवान्न स्यात् कारणं विना कार्या-
नुत्पत्तेः (मु० ) इति । वेदान्तिनसवाडुः । प्रत्यक्षं व्याप्तिप्राहकम् ।
तथा च साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्शन
व्यभिचारादर्शनोपाध्यमा-
वनिश्चमाः सहकारिणः । एवमनुमानागमावपि व्याप्तिमाह कौ । तत्राग-
१०५ न्या० को०