This page has not been fully proofread.

ज्यायकोशः ।
 

 
माधिकरण्यम् (बै० उ० ३।१।१४ पृ० १५२ ) । अत्र गङ्गेशो-
पाभ्याया आहुः एतादृशात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदे-
वानौपाधिकत्वम् इति ( चि० २ पृ० ८ ) । [ ख ] स्वाभाविकः साध्य-
हेत्वोः संबन्ध: ( त० भा० ) । [ग] उपाधिविधुरः संबन्ध: ( सर्व ०
सं० पृ० ७ चार्वा० ) (ता० र० श्लो० १४) [घ ] यद्विशिष्टसमाना-
धिकरणा यावन्तः साध्यसमानाधिकरणास्तद्वत्त्वम् ( न्या० म० २ १०
१६ ) । यथा इदं वाच्यं ज्ञेयत्वात् पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्
पर्वतो वह्निमान् घूमात् इत्यादिषु केवलान्वयिकेवलव्यतिरेक्यन्वयव्यति-
रेकिषु त्रिष्वपि हेतुषु तादृशाः संबन्धाः सन्तीति व्याप्तिसामान्य स्वरूपाणि
संगच्छन्ते । भवति च धूमत्वविशिष्टसमानाधिकरणा यावन्तो धर्माः
बहिसमानाधिकरणा इति घूमे वहिव्याप्तिः । न तु वह धूमस्य । न हि
वह्नित्वविशिष्टसमानाधिकरणा यावन्तो घूमसमानाधिकरणा भवन्ति ।
अयः पिण्डत्वस्य वह्रिस्व विशिष्टसमानाधिकरणस्य धूमासमानाधिकरण-
स्वात् । अस्ति चेदं केवलान्वयिनि । अभिधेयत्वविशिष्टसमानाधिकर-
णानां यावतां ज्ञेयत्वसमानाधिकरणत्वात् ( न्या० म० २ पृ० १६) ।
अन्वयव्यतिरेकव्याप्तिसाधारणं व्याप्तित्वं तु हेतुतावच्छेदकनिष्ठप्रका-
रताभिन्ना यानुमितिजनकतावच्छेदकतावच्छेदकीभूता प्रकारता तद्वत्त्वम्
इति । तथा हि केवलान्वयिस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ उक्तलक्षणघटक-
तादृशप्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठा निरूप्यनिरूपक-
भावापन्ना प्रकारता भवति । अन्वयव्यतिरेकिस्थले वह्निमान् धूमादित्यादौ
तादृशी प्रकारता तु हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता
साध्याभावव्यापकी भूताभावप्रतियोगिध्वनिष्ठ प्रकारता च भवति । केवल-
व्यतिरेकिस्थले पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ जीवच्छरीरं
सात्मकं प्राणादिमत्त्वादित्यादौ चाप्रसिद्धसाध्यकस्थलेपि तादृशी प्रकारता
च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता भवति इति सर्वत्र
व्यातौ लक्षणसमन्वयो बोध्यः । अत्र हृदयम् । साध्याप्रसिद्धावपि अनुमितेः
पूर्व पक्षातिरिक्त यत्किंचिदधिकरणे साध्यनिश्चयाभावेपि साम्मकत्वादिरू-
cla