This page has not been fully proofread.

न्यायकोशः ।
 
८३१
 
कश्च भवति इति परशुदारुसंयोगो व्यापारो भवति इति । एवम् यागादे-
र्व्यापारः अदृष्टमित्याद्यूह्यम् । शिष्टं तु करणशब्दे दृश्यम् । २ [क]
प्रवृत्तिविषयः । यथा देवदत्तो प्रामं गच्छतीत्यादौ गमधातुनोत्तरदेश-
संयोगानुकूला या क्रिया बोध्यते स व्यापारः । एवम् सर्वत्र शाब्दबोधे
धात्वर्थव्यापार ऊह्यः । [ख ] शाब्दिकास्तु पदान्तरसमभिव्याहाराम-
योज्यसाध्यत्व प्रकारकाभिधानविषयो व्यापारः इति वदन्ति । स च
व्यापारः भावयितुरुत्पादन किया। तदुक्तं भर्तृहरिणा व्यापारो भावना
सैवोत्पादना सैव च किया ( वाक्यपदीये) इति । ३ आधुनिक वैश्यास्तु
अर्थजनक उद्यमो व्यापार इत्याहुः ।
 
व्यापारित्वम् - व्यापार विशिष्टत्वम् । तच्च कचित् जनकतासंबन्धेन व्यापा-
रविशिष्टत्वम् । यथा न हि व्यापारेण व्यापारिणोन्यथासिद्धिः ( त०
प्र० १ ) इत्यादौ इन्द्रियाद्यात्मकस्य करणस्य व्यापारिश्वम् ।
 
व्यापित्वम् - व्यापकत्वम् ।
 
-
 
व्याप्तत्वम् - १ व्यातिविशिष्टत्वम् । यथा धूमो बहिना व्याप्तः इत्यादौ ।
यथा वा साध्याभावव्याप्तो हेतुर्विरुद्धः (त० सं० ) समेन यदि नो व्याप्तः
( उदयन: ) इत्यादौ व्याप्तत्वम् । २ पूर्णत्वम् । ३ समाक्रान्तत्वं चेति
वेदान्तिन आहुः । ४ ख्यातत्वम् । ५ स्थापितत्वं चेति काव्यज्ञा आहुः ।
 
-
 
व्याप्तिः - संबन्ध विशेषः । अत्र के चिदाहु: । केवलान्वयिनि केवलान्वयि-
धर्मसंबन्ध: । व्यतिरेकिणि साध्यवदन्यावृत्तित्वं व्याप्तिः । एतयोरनुमिति-
विशेषजनकत्वम् । अनुमितिमात्रे तु पक्षधर्मतैव प्रयोजिका । न चाति-
प्रसङ्गः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्याः कार्यजनकत्वम्
इति नियमात् इति ( चि० २ पृ० ५) । स च साध्यसाधनस्थले
[ क ] अनौपाधिक: संबन्धः । स चानुमित्यौपयिकः साधननिष्ठः सा-
ध्यस्य संबन्धः इति विज्ञेयम् । अत्र अनौपाधिकत्वं तु यावत् स्वव्यभि
चारिव्यभिचारिसाध्य सामानाधिकरण्यम् । अथ वा यावत्स्वसमानाधिकर-
णायन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासमानाधिकरणसाभ्यसामा-